________________
- तृतीयः काण्डः
..
(३०५) उदचिरुत्प्रभेऽग्नौ च कनीयाननुजेऽल्पके अतियुनि कीकसस्तु कुमौ कीक समस्थनि ॥७४२॥ तामसः सर्पखळयोः तामसी स्यान्निशोमयोः ।
त्रिस्त्रोता जाहवी सिन्धुभिदोरथ दिवौकसौ ॥ ७४३॥ न्यतेऽवतंसः। व्यवाभ्यांतनेरीच्चवेरितिसः । वावाप्योरिति अवस्यवादेशः । अवतंसोऽपि ॥ त्रयोऽपि पुनपुंसकाः । शेखरः शिरोमाल्यम् । कर्णपूरः कर्णाभरणम् । द्वयोर्यथा- उत्तंस कौतुक रसेन विलासिनोनां लूनानि यस्य न नखैरपि पल्ववानि । वतंसः शेखरे यथा- उष्णागमें न ववतंसितमल्लिकानां । स्नातानुवासित विकुंचितकुंतलानाम् । कर्णपूरे यथा- वतंसयन्ती नयनं मृगाक्षी कटाक्ष लक्षैर्मुहुरीक्षते मां । अवतंसो द्वयोर्यथा- गणा न मेरुप्रसवावतंसाः ॥७४१॥ उचिरुत्प्रभेऽग्नौ च ।। उद्गता ऊर्दुव्वा वा अर्चिरस्य उदर्चिः । उत्प्रभे वाच्यलिङ्गः । तत्र यथा- स्फुरन्नुदर्चिः सहासा तृतीया दक्ष्णः कृशानुः किल निष्पपात । अग्नौ पुंसि तत्र वाच्यलिङ्गः। प्रक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतं । कनीयाननुजेऽल्पके । अतियूनि । अतिशयेनऽल्पो युवा वा कनीयान् । “गुणाङ्गाद्वेष्ठे यम' ७३।९। इति ईयसौ अल्प यूनोः कत्वेति कनादेशः । अनुजेऽतियूने च यथा- कलत्र वाहनं बाले कनीयांसं भजस्व मे । अल्पके वाच्यलिंगः । तत्र यथा- रजः कणैः कनीयोभिरयोंभिरिव तापितैः । दक्षिणानिक निर्धूतैः (निर्मातैः) स्पृष्टा कष्टं हि जीवति । कोकसस्तु कुमौ ककते ककसः । “फनसता मरसादयः" (उ०५७३). इति साधुः । की इति अव्यक्तं कसति वा । कृमिः कोटः। यथा-कीकसा:कृमयोऽणवः । कीकसमस्थ- नि । यथा-सद् यः पाटित कंठकीकस कणा कीर्णाशदंशस्थलीम् । स्वेनेभाजिनपल्लवे नमु दितः प्रस्फोटयद् धूर्जटिः ॥७४२।। तामसः सर्पखलयोः । तमोऽस्त्यस्य तामसः । "ज्योत्स्नादित्वात्" अण॥ (७।२।३४) खले वाच्यलिङ्गः । द्वयोर्यथा-दुश्चेष्टितै निजैरेव तामसो हि मलीमसः ॥ तामसो स्यान्निशोमयोः ॥ निशायां यथा-हा षिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा | उमा गौरी । त्रिस्त्रोता जाह्नवी पिन्धुभिदोः । त्रीणि स्त्रोतांसि यस्या सा त्रिस्त्रोता।