________________
(३०४)
अनेकाथसंग्रहः सटीकः :: द्वितीयो विभागः
अलसः स्याद्दुमभेदे पादरोगे क्रियाजडे ॥ अलसा तु हंस पढ़यां नगौको वद गौकसः ॥७३९॥ विहंग सिंह सरभाः आश्वासः स्यात्त निवृत्तौ ॥ आख्यायिका परिच्छेदेऽपीष्वासोधन्वधन्विनोः ॥७४॥ उच्छ्वासः प्राणनेश्वासे गद्यबन्धान्तरेऽपिच ॥ उत्तंसः शेखरे कर्णपूरे चापि वतंसवत् ॥ ७४१ ॥
संहर्षः । पवनो वायुः । मुदि यथा- वल्लभालोकनं कस्य संहर्ष न प्रवर्षति । स्पर्द्धायां च यथा— संहर्षिणा सह गुणाभ्यधिकैर्दुरासम् । समीक्षा तु ग्रन्थभेदे समीक्षणे । समीश्यतेऽनया समीक्षणं वा समोक्षा । द्वयोर्यथा-समीक्षाविचक्षणः । अथ सान्ताः ॥ ७३८ || अलसः स्याद्द्मभेदे पादरोगे क्रियाजडे । अलति अलसः । " वप्यणि" इत्यसः ॥ न लसति वा । द्रुमभेदो अशोकवृक्षः । पादरोगे यथा - अलसितचरणामः कर्दमैः प्रावृषेण्यैः । क्रियाजडे वाच्यलिङ्गः । तत्र यथा - वपुरलसलसद्वाहुलक्ष्म्याः पुनातु | अलसा तु हंसपदयां। हंसपदी औषधिः । नगौको वद गौकसः । विहंग सिंह सरभाः । अगोनगश्च वृक्ष गिरिर्वा । तत्र ओकोऽस्य । अगौकानगौकाः । ७३९ | विहंगः पक्षी | सिंहः केसरी | सरभोऽष्टापदः । आश्वासः स्यात्त निवृत्तौ । आख्यायिका परिच्छेदेऽपि । आश्वासनं आश्वासः । निर्वृतिर्धृतिः । द्वयोयथा - आख्यायिके वसाश्वासा सुवक्त्रा च मृगेझणा । इष्वासो धन्वधविनोः । इषून् अस्यति इष्वासः । धन्वनि । पुंक्लीव: । धन्विनि वाच्यलिङ्गः । धन्वनि यथा- पलायत परित्यक्त महेष्वासा वसाचमूः । धन्विनि यथा - नाशितं विद्विषां सैम्यमिष्वासैरिषुवर्षिभिः ॥७४० ॥ उच्छ्वासः प्राणने श्वासे गद्यबन्धान्तरेऽपि च । उच्छ्वासनं उच्छ्वासः । प्राणनं जीवनं । आयुरित्यर्थः । श्वासः पवनश्वसितं । तयोर्यथा - देहान्तर्यावदुच्छ्रवासस्तावद्धर्म विधेहि भो । गद्यबन्धान्तरे यथा - गद्यपद्यमयीचम्पूः साङ्कोच्छ्वासा च वर्ण्यते ॥ उत्तंसः शेखरे कर्णपूरे चापि (य) वतंसवत् । भूषतसुण् अलङ्कारे उत्तंसयति उत्तंसः । अवत