________________
तृतीयः काण्डः ...... (३०३) त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने ॥ चकोरे महिषे करे पारावतेऽथ रौहिषः ॥७३६॥ .. मृगकत्तूण मत्स्येषु विश्लेषस्तु वियोजने ॥ विधुरे चाथ शुश्रूषोपासनाश्रवणेच्छयोः ॥७३७॥ शैलषः स्यान्नटे बिल्वे संहर्षः पवने मुदि ।
स्पर्धयां च समीक्षातु ग्रन्थभेदे समीक्षणे ॥७३८॥ इन्द्रवारुणी लताभेदः । रक्ताक्षो रक्तलौचने । चकोरे महिषे करे पारावते (पारापेते) । रक्त अक्षिणी यस्य स रकाक्षः । रक्तलोचने क्रूरे च वाच्यलिङ्गः । तयोर्यथा-विपक्ष वीक्षणाज्जज्ञे रक्ताक्षो राक्षसेश्वरः । चकोरे महिषे पारावते च यथा क्षणं कौतुकसताक्षरताक्षो वीक्ष्यते न कैः । अथ रौहिषः । मृगकत्तृणमत्स्येषु ॥ रोहति रोहिषः । "रुहे वृद्धिश्च" (उ०५. ४८) इती षः ॥७३६॥ मृगो मृगभेदः ॥ तत्र तथा-कृष्णसाररुरुरोहिषाकुलं केकिकोकिलकुलारवावृतम् । कत्तण तृणजातिः ।। तत्र पुलकोबः । तत्र यथायोषा सस्वस्वपिषि रौहिषकायमाने । मत्स्ये मत्स्यभेदे यथा-अदृष्टातिशयोनित्यानुभूतं बहुमन्यते मन्यते रोहिषस्तुण्यश्चण्डो(तुंडी)मपिमहोदधिं । विश्लेषस्तु वियोजने, विधुरे च ।। अथ विश्लेषणं विश्लेषः । वियोजनं पृथग्भावमात्रम् । विधुरमिष्टवस्तुवियोगः। वियोजने यथा-अदृश्यतत्वचरणारविन्द विश्लेषदुःखादिवबद्धमौनम् । विधुरे यथा आस्तांदूरेण विश्लेषः । प्रियामालिङ्गतोपि मे । स्वेदः किन्न सरिन्नाथो रोमाञ्चः किन्नपर्वतः । शुश्रूषोपासनाश्रवणेच्छयोः ॥ श्रोतु मिच्छा शुश्रूषा । उपासनायां यथा-तस्मै शशम प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेतां । श्रवणे छायां यथा शुश्रूषा श्रवणं चैव ग्रहणं धारणन्तथा ॥७३७॥ शैल्पः स्यान्नटे बिल्वे । शलति शैलूषः "कोरदूषेति साधुः । (उ. ५६१) नटे यथा-अथोपपत्तिछलनापरो परामवाप्य शरूष इवैष भूमिकां । बिल्वः श्रीफलम् । संहर्षः पवने मुदि। स्पर्दायां च ॥ संहृष्यत्यनेन संहर्षणं का
१ विशेषस्तु व्यकताववयवेऽपि च आधिक्ये चाय० ।