________________
(३०२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
ऊर्दध्वविस्तृत दोः पाणि पुरुषोन्मान तेजसोः ।। पुंसः कर्मणि भावे च महिषी नृप योषिति ॥७३४॥ सैरिभ्यामौषधीभेदे मारिषस्त्वार्यशाकयोः ॥
मारिषा दक्षजननी मृगाक्षी मृगलोचना ॥७३५।। आत्मनि यथा-तदर्शिनमुदासीनं त्वामेव पुरुषं विदुः । नरे यथा-तरसेव कोपि भुवनैकपुरुष पुरुषस्तपस्यतितपन्जगतीम् । पुन्नागो वृक्षः । पश्चइस्त प्रमाणेऽपि मङ्खः । यथा-उद्ध्वबाहुरूद्ध्वपदः । प्रपदाभ्यां प्रतिष्टितः । पञ्चारत्तिर्दशपदः पुरुषो विंशशतांगुलः । अथ पौरुषम् ॥ ऊर्दध्य विस्तृत दोः पाणि पुरुषोन्मान तेजसोः ॥ पुंसः कर्मणि भावे च ॥ पुरुषः प्रमाणमस्य पौरुषम् ॥७३३॥ "हस्ति पुरुषाद्वाण" पुरुषस्येदं वा । पुरुषस्य भावः कर्म वा । "पुरुषहृदयादसमासे" ७।१।७०। इत्यण उर्दव विस्तृत दोः पाणि पुरुषोन्माने वाच्यलिङ्गः । तत्र यथा-कारयेत्पौरुषी वेदि दर्शिकीमग्निसंयुताम् । तेजसिंपराक्रमे यथा-वितन्यते तेन नयेन पौरुषं ॥ पुरुषस्य कर्मणि भावे च यथा-बुद्धिपौरुष हीनानां जीविके ति बृहस्पतिः ॥ महिसी नृप योषिति । सैरिभ्यांमौषधी भेदे । मह्यते महिषी । "मह्यविभ्यां टित् (३०५४७) इती षः । त्रिध्वपि यथा-आक्रान्तं महिष भिरेव शयनं त्वद्विद्विषां मन्दिरे राजन् सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः ॥७३४॥ मारिषस्त्वार्यशाकयोः ॥ मश् हिंसायां, मृणाति मारिषः । 'अमिमभ्याणि दितीसः” (उ०५४९) ॥ आर्ये यथा-मारिष भवतः कुतूहलमीदृशमेवैतत् शाकं शाकभेदः । मारिषा दक्ष नननी । दक्षस्यमुनेर्जननी दक्ष जननी । मृगामी मृगलोचना ॥ त्रियामेन्द्रवारुणी च ।। मृगस्येव अक्षिणी अस्याः मृगाक्षी ।। "सवथ्यक्ष्णः- स्वाङ्गे ७-३-१२६" इति टेङीः । मृगो नक्षत्र मेदोऽक्षि अस्या वा । “अक्ष्णोऽप्राण्यङ्गे' ७-३-८४इति अतिगौरादित्वाङ्गीः । मृगालोचनायां यथा केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्वा च कण्ठाटवीम् ॥७३५॥ त्रियामा रात्रिः ।