________________
तृतीयः काण्डः
(३०१) प्रत्यूषः स्याद्वसो प्रातः प्रदोषः कालदोषयोः ॥ परुषं कर्बुरे रूक्षे स्यान्नीष्ठुर वचस्यपि ॥७३२॥ पीयूषममृते नव्य सूतधेनोः पयस्यपि ॥
पुरुषस्त्वात्मनि नरे पुन्नागे चाथ पौरुषम् ॥७३३॥ १॥५५॥ इति षः यथा-प्रादुःषन्ति विशेषाहेम्नां निकषोपलं ( निकाषा) निकषा यातुमातरि । यातूनि रक्षांसि. तेषां माता तत्र यथा-दितिरदितिईनुकढुनिकषावनिताश्च मातरः प्रोक्ताः । निमेष निमिषौ नेत्रमोलने काल भिद्यपि । निमेषणं निमेष धन । “स्थादिभ्यः कः ,,५।३।८२। इति के निमिषः । कालमेदे तूपचारात् । नेत्रमोलने यथा-आराधितोद्वामतुरप्सोभिश्चके प्रजाः स्वाः सनिमेषचिह्नाः । अनिमेषमविरामा रागिणां सर्वरात्रं नवनिधुवन लोलाकौतुकेनाभिवीक्ष्य । कालभिदि यथा-निमेष मात्रादव ध्य च व्यथां । सहोत्थितः सैनिकहर्षनिः स्वनैः । एवं निमिषोऽपि ॥७३१।। प्रत्यूषः स्याद्वसौप्रातः । प्रत्यूषति रुजति प्रत्यूषः । अष्टौ वसवः तेषु मध्ये एकस्य प्रत्यूष इति नाम प्रातः प्रभाते पुंक्लोबः । तत्र यथा-प्रत्यूषेषु स्फुटितकमला मोदमैत्रो कषायः । प्रदोषः काल दोषयोः। प्रारब्धा दोषा अत्र प्रकृष्टो वा दोषः प्रदोषः । दोषवाय पे मखः । त्रिष्वपि यथा-तमः स्वभावास्तेप्येनं प्रदोष मनु गामिनः । परुषं करबुरे रुक्षेस्यान्निष्ठुर वचस्यपि ॥ पृणाति परूषं ऋप नहि हानि- उषः (उ०५५७) इत्युषः। वाच्यलिङ्गः सदृशेऽपि मङ्खः कबुरे सदृशे च यथा-विरक्त पन्ध्यापरुषं पुरस्ताद्यथा रजः पार्थिवमुजिहोते रुक्षे यथा-स्नेहसंगेपि पारुष्यं वर्तते ते करोमि किं । निष्टुरे वचसि यथाअपि सपत्नजनेन च तेन वाग परुषा परुषाक्षरमीरिता ॥७३२। पीयूसममृते नव्यमूतधेनोः पयस्यपि (धेनु पयस्यपि)॥ पोयिः सौत्रः (पीय: सौत्रः)। पीय्यते पीयूषं । "खलि पलोत्यूषः” (उ०५६०) अमृते यथा-अपि सुमुखिमयुषाः पश्य पयूषरश्मेः । नव्यसूतधेनोः पयमि यथा-पीयूषगण्डूषशतानि पायं पायं स्वन्ति वनवासि गोपाः ॥ पुरुषस्त्वात्मनि नरे पुन्नागे च । पृणाति पुरुष "विदिपृभ्यां किदित्युषः (उ०५५८)॥ पुरिशयनाद्वा पृषोदरादित्वात् ॥