________________
(३००)
अनेकार्थसंग्रहः सटीकः द्वितीयो विभागः गवाक्षी विन्द्रवारूण्यां गण्डूक्षो मुख पूरणे ॥ गजस्य च कराङ्गुल्यां प्रसृत्या प्रमितेऽपि च ॥७२८।। गोरक्षो गोपनारङ्गी जिगीषातु जय स्पृहा ॥ व्यवसायः प्रकर्षश्च तरीषः शोभना कृतौ ॥७२९॥ भेलेऽब्धौ व्यवसाये च ताविषोऽब्धि सुवर्णयोः । स्वर्गे च नहुषो राज विशेषे नाग भियपि ॥७३०॥ निकषः शाणफलके निकषा यातु मातरि ॥
निमेषनिमिषौनेत्र मीलने काल भिद्यपि ॥७३१॥ मादनः ॥ ७२७ ॥ गवाक्षीविन्द्रवारुण्यां । इन्द्रवारुणी लताभेदः ।
गण्डूषो मुख पूरणे॥ गजस्य च कराङ्गुल्या प्रमृत्या प्रमितेऽपि च ॥ गण्डति गण्ड्षः । खलिफलीत्युषः मुख पूणे स्त्रीपुंसः । तत्र यथा-वत्से मा बहु निःश्वसीः कुरु सुरागंड्षमेकं शनैः । गजस्य कराङ्गल्यां यथाददौ सरः पङ्कजरेणुगन्धिगजाय गण्डूषजलं करेणुः । प्रसृत्या प्रमिते यथाअगस्तिः पातु वो यस्य गण्ड्षोऽभूत्-पयोनिधिः ।। ७२८॥ गोरक्षो गोपनारङ्गौ । गां रक्षति गोरक्षः । गोपे वाच्यलिङ्गः । तत्र यथा - गोरक्षनाथः क्षिणुता मघानि । नारङ्गो वृक्षः । जिगीषा तु जयस्पृहा । व्यवसायः प्रकर्षश्च । जेतुमिच्छा जिगीषा । जयस्पृहायां यथा-षड्विधं-बलमाधाय प्रतस्थे दिग्जिगीषया । व्यवसाये यथा-सुप्रज्ञस्याजिगीषस्य कार्यसिद्धिः सुदुष्करा । प्रकर्षः उत्कर्षः। तरीषः शोभना कृतौ । भेलेऽन्धौ व्यवसाये च । तरत्यनेन तरीषः। "कृतभ्यामीषः (उ०५५३) ॥शोभना कृतौ वायलिङ्गः ॥ ७२९:॥ भेल: पूवः । अधिः समुद्रः । व्यवसायः कार्यतात्पर्यम् । ताविषोऽब्धिसुवर्णयोः । स्वर्गे च । तवीति ताविषः । “तवेर्वा" इति ईषः ॥ (उ०५५०) त्रिष्वपि यथा-रत्नाश्रयो निरीहाणां ताविषोऽपिविषोपमः । नहुषो राजविशेषे नागभिद्यपि नह्यते नहुषः । "ऋप नहि हनि उषः (उ०५५७) राज विशेषे यथा-अधमाच्चैव नहुषः प्रतिपेदे रसातलम् । नागभित् सर्पभेदः ।७३०। निकषः शाणफलके । निकषन्त्यत्र निकषः ।" गोचर संचर-षम् " ।५।