________________
तृतीयः काण्डः
' (२९९) शिरोवेष्टे किरीटे च कलुषं त्वाविलाहसोः ॥ कल्माषो राक्षसे कृष्णे शबलेप्यथ किल्विषम् । ७२६। पापे रोगेऽपराधे च कुल्माषं स्यात्तु काश्चिके ।
कुल्माक्षोऽन्नड़ स्विन धान्ये गवाक्षो जालके कपौ ॥ ७२७ ॥ सिनि । वृत्तमुत्तुङ्ग मुष्णीषं शिश्रिये कलशश्रियम् ।७२५ । शिरोवेष्टे यथा-ऋत्विजोलोहि तोष्णोषाः प्रविशन्तु यथाक्रमम् । किरंटे यथा-विकोणे मुष्णोषमणिप्रभाभिः । कलुषं त्वाविलांहसोः। कल्पते (कल्यते) कलुषं । कं "प महि हनी त्युषः" (उ० ५५७) । आविले वाच्यलिङ्गः । तत्र यथा-विभिन्नशरवः कलुषी भवन् मुहुर्मदेन दन्तीव मनुष्यधर्मणः । अंहसि पापे यथा-धुनी धुनीते कलुषं विपाशा । कल्माषो राक्षसे कृष्णे शबलेऽपि । कल्पते (कल्यते) कल्माषः । "कुलेश्च माषक्., (उ० ५६३) । राक्षसो राक्षसभेदः। कृष्णशबलयोर्वर्णयोः । पुंसि तद्वपि वाच्यलिङ्गः । कृष्णे यथा-सकल्मा षः कण्ठस्तवन कुरुते न श्रिपमहो विकारोऽपि श्लाघ्यो भुवनभयभंगव्यसनिनः । शवले यथा-सरोजाक्षी कक्षा मणिकिरण कल्माष वपुषं । अथ किल्विषम् । पापे रोगेऽपराधे च । कल्यते किल्विषम् । "कले: किल्वेचेतीषः” ( उ० ५५१ ) ॥७२६॥ पापे यथा सभायां न प्रवेष्टव्यं वक्तव्यं नाऽसमंजसम् सभा या न प्रवेष्टव्या वक्तव्यं वा समंजसम् । अबुवन् विब्रुवन् वापि नरो भवति किल्विषी । रोगो गद । अपराधे यथा तस्य किल्विषमपेक्षसेऽथ चेन्नो भवेत्सखि स एव ते प्रियः । स्नेहवृत्तिमनुरुध्यसे स्फुटं गृह्यतां निरपराध एव सः । कुल्माषं स्यात्तु काश्चिके । कोलति कुल्माषं । "कुलेश्च माषक.,(उ० ५६३)यथा-कुल्माषपाणं प्रणिहन्ति वित्तं कुल्माक्षोऽर्द्ध स्विन्नधान्ये ॥अर्धस्विन्नधान्यं माषादि । तत्र यथा-भ्रमन्ना सादयामास. कुल्माषान् कुत्रचिद्गृहे । गवाक्षो जालके कपौ ॥ गोरक्षीव गवाक्षः ॥ "अक्ष्णोऽप्राण्यङ्गे (७।३।८५) इत्य. समासान्तः ॥ गोरिवाशस्य वा"सक्थ्यणः स्वाङ्गे'' (७।३।१२६) इति टः ॥ जालके यथा-विद्युद्गर्भस्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तं धीरस्तनितवचनैर्मानिनानी प्रकमेथाः । कपिः प्लवगविशेषः । यथा-गवो गवाक्षो-गवयः । शरमो गन्ध