________________
(२९८) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः
आरक्षो रक्षके हस्तिकुम्भाधश्चामिषं पंले ॥ मुन्दराकार रूपादौ सम्भोगे लोभलञ्चयोः ॥७२४ ॥ आकर्षः पाशके धन्वाभ्यासाङ्गे द्यूत इन्द्रिये ॥
आकृष्टौ शारिफलकेऽप्युष्णीषं लक्षणान्तरे ॥ ७२५ ॥ वल्गादि । रोचिर्मयूखः तत्र यथा-अभीषूणां नरेन्द्रस्य योधानामुदयैषिणः । अभीषूणां चमूर्यस्य (च सूर्यस्य) वैमुख्यं न कदाप्यभूत् । आरक्षो रक्षके हस्तिकुम्भाधश्च । आरक्षति आरक्ष्यते वा आरक्षः । रक्षके वाच्यलिङ्गः । तत्र यथा-आरक्षाद्भयमुत्पन्न, नराणां को हि रक्षति । हस्तिकुम्भाधो भागे-यथा-आरक्षमग्नमवधूय मूणिं मृणि सिताग्रमेकः पलायत जवेन कृतातनादः। आमिषंपले । सुन्दराकाररूपादौ सम्भोगेलोभलम्चयोः । अभ्यते आमिषं, "अमिमभ्यां णिदितीषः” (उ० ५४९) ॥ आमिषतिवा । पञ्चस्वथेषु पुंक्लोबः । पले मांडे यथा--उपानयत्पिण्डमिवामिषस्य । सुन्दराकाररूपादौ भोग्यवस्तुनि यथा-आदास्यमानः प्रमदामिषं तत् । सम्भोगे लोभलञ्चायाञ्च यथा-आमिषार्थे भवेयुद्धम् ॥७२४।। आकर्षः पाशके धन्वाभ्यासाङ्गेदयत इन्द्रिये । आकृष्टौ (आकृष्टे)-(आकृष्टो) शारिफलकेऽपि। आकृष्यतेऽसौ आकर्षणम् । आकर्षन्ति अस्मिन् वा आकर्षः । पाशको देवनः । धन्वाभ्यासाङ्गं धनुष्काणां बाहु दृढी करणार्थ वालुकादिभूतकुतपादियन्त्रं । युतं दुरोदरं । शारि फलकं अष्टापदः । चतुर्वपि यथा-आकर्षात्सदुराकर्षः सखे मास्मकृथाग्रहम् । इन्द्रियं चक्षुरादि । आकृष्टौ यथा-आकर्षा जनमिव चक्षुषो जनानाम् । अन्ये तु पाशकशब्देन उष्ट्राणां दारुमयं रज्जु इन्धनार्थ पादकटकमुच्यते इत्याहुः यथा-आकर्षेणेव विभो शब्दादि सुदीर्ध रज्जुविषयेण मनसा पशुमिव परवशममृतेश विपाशयाशुत्वम् । उष्णीषं लक्षणान्तरे । शिरोवेष्टे किरीटे च । उपति अशुभं उष्णीषम् । "उषेोन्तश्चतीषः" (उ० ५५६)॥ पुंक्लीवः । लक्षणान्तरं देहलक्षणविशेषः । तत्र यथा-मौलिच्छत्रे महेशस्य जगदीशिवशं