________________
तृतीयः काण्डः
(२९७) सदृश तूचिते तुल्ये सङ्काशः सदृशोऽन्तिके । सम्वेशः शयने पोठे सुखाशस्तु प्रचेतसि ॥७२२॥ शुभाशे राजतिनिशे हताशो निष्कपे खले ।
अध्यक्षोऽधिकृतेऽन्वक्षेऽभीषु प्रग्रहरोचिषोः ॥७२३॥ विपशा तु सरिद्धेदे । वसिष्टं विपाशयति मोक्षमापादयति विपाशा । यथावसिष्टसंसेविततीरदेशाधुनी धुनोते कलुषं विपाशा । सदेशोऽन्तिकदेशयोः। समानो देशोऽस्य सदेशः । ममानस्य धर्मादिष्विति । समानस्य सभावः । अन्तिके वाच्यलिङ्गः । द्वयोर्यथा-नद्या सदेशे गिरिगह्वरेषु ॥७२१॥ सदृशं तूचिते तुल्ये । समानमिव दृश्यते मदृशम् । तदाधनेतिटकिटग्दृशदृक्षे इति समानस्य सभावः । वाच्यलिङ्गः । उचिते यथा- मां लोकवादश्रणादहासोः, श्रुतस्य किं तत्सदृशं कुलस्य । तुल्ये यथा-सरोज सदृशीं दृशाम् (दृशम्) । संकाशः सदृशोऽन्तिके । समं संगतं वा काशते संकाशः । वाच्यलिङ्गः । सदृशे यथा - वस्त्रायन्ते नदीनां तितकुसुमधराः शक्रसंकाशकाशाः । अन्तिके निकटे यथा- राजसंकाशमासाथ कस्को न स्वं प्रकाशयेत् । सम्वेशः शयने पीठे । सम्वेशनम् संविशन्त्यत्र वा सम्वेशः । शयने यथा-अथ प्रदोषे दोपज्ञः सम्वेशाय विशांपतिः (पतिम् ) । पीठे यथा- सम्वेशे समुपाविशत् । सुखाशस्तु प्रचेतसि । शुभाशे राजतिनिशे । सुखाख्यायां पुरि शेते सुखाशः । कचिदिति डः सुखहेतुराशाऽस्य वा । सुष्टु खमश्नुते वा। प्रचेता वरुणः ॥७२२॥ शुभाशः शुमेच्छः । तत्र वाच्यलिङ्गः । राजतिनिशो वृक्षः । हताशो निष्कृपे खले । हता आशा यस्य स हताशः। वाच्यलिङ्गः । द्वयोर्यथा-इतो हताशेन शिशुर्यमेन । अथ षान्ताः। अध्यक्षोऽधिकृतेऽन्वक्षे अक्षेषु आयस्थानेष्वधिकृतः । अधिकान्यक्षाण्यस्य अध्यक्ष्णोति वा । अौरधिगतो वा । अध्यक्षः वाच्यलिङ्गः । अधिकृतो नियुक्तः। अन्वक्षं प्रत्यक्षम् । द्वयोर्यथाशुल्काध्यक्षैः स्वयमहि कृतं भाण्डमध्यक्षमेतत् । अभीषुः प्रग्रहरोचिषोः । अभिष्यते अभीषुः । "पृकाहृषीति' (उ० ७२९ ॥) उः। पुंसि । प्रग्रहो
१. नष्टवाञ्छे हुताशस्तु पावके बहुभोजिनी । अध्यक्षो०
२०