________________
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः पिंगाशौ मत्स्यपल्लीको पिंगाशी स्यात्तु नीलिका । बालिशस्तु शिशौ मूर्खे भूकेशः शैवले वटे ॥७१८॥ लोमशो' लोमयुक्तऽवौ लोमशा शाकिनीभिदि । महामेदा काकजडा शृगाली जटिलासु च ॥७१९॥ कासीसेऽतिवला शुकशिम्बी मर्कटिकासु च । विवशः स्यादवश्यात्माऽनिष्टदुष्टमतिश्च यः ॥७२०॥ विकाशो रहसि व्यक्ते विपाशः पाशवजिते ।
विपाशा तु शरिभेदे सदेशोऽन्तिकदेशयोः ॥७२१॥ मश्नुते पिंगाशम् ॥७१७॥ पिंगाशौ मत्स्यपल्लीशौ । मत्स्या मत्स्यभेदः । पल्लीशः पल्लीपतिः । पिंगाशी स्यात्तु नीलिका । नीलिका औषधिः । बालिशस्तु शिशौ मूर्ख । बलते बालिशः । बलेणिवेतोशः (उ. ५३६) । मूर्ख वाच्यलिङ्गः । द्वयोर्यथा- निरर्थकं परस्यापि गृहे विशति बालिशः । भूकेशः शैवले वटे । भुवः केश इव भूकेशः । शैवले 'क्लोबः ॥७१८॥ लोमशो लोमयुक्ते । (लोमशो लोमसंयुते) । अवौ। लोमानि सन्त्यस्य लोमशः । लोमादित्वात्शः लोमानि श्यति वा । लोमयुक्ते वाच्यलिङ्गः । तत्र यथा-स्तनकेशवती स्त्री स्यात् लोमशः पुरुषः स्मृतः । अवौ यथा- निर्मलः कम्बलश्लक्ष्णैव्यूतो लोमशरोमभिः । लोमशा शाकिनीभिदि । महामेदा काकजङ्घा गालीजटिलासु च । कासीसेऽतिबलाशूकशिम्बी मर्कटिकासु च ॥ शकिनीभिदि शगाल्यां च यथा- जम्भते लोमशा निशि । कासीसं धातुभेदः । शेषाः षडोषधयः ॥७१९॥ विवशः स्यादवश्यात्माऽनिष्टदुष्टमतिश्च यः ॥७२०॥ विगतो वश आयत्तत्त्वं यस्य स विवशः । विरुद्धं वष्ठिकामयते वा वाच्यलिङ्गः । द्वयोर्यथा- अथ मोहपरायणा सतो विवशा कामवविबोधिता ॥७२०॥ विकाशो रहसि व्यक्ते । विकाशते विकाशः । एकदेशविकृतत्वात् वीकाशोऽपि । व्यक्ते वाच्यलिङ्गः । द्वयोर्यथा- उपविश्य विकाशेषु रहस्यानि प्रकाशयेत् । विपाशः पाशवजिते । विगतः पाशोऽस्य विपाशः । वाच्यलिङ्गः । यथा- विपाशमाधाय सकीरपाशम् ।
१. भूकेशी वल्वजेषु स्यात् लोमसो०