________________
तृतीयः काण्ड
(२९५) नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः । उद्योतेऽतिप्रसिद्ध च प्रदेशो देशमात्रके ॥७१६॥ भित्तौ मानविशेषे च पलाशः किंशुकेऽस्त्रपे।
हरिते पलाश पत्रे पिंगाशं जात्यकाश्चने ॥७१७॥ तौ निदेशकरणोधतो पितुः । नीकाशो निश्चये तुल्ये । नितरां काशते नीकाशः ॥७१५॥ नामिनः काशे इति दीर्घः । तुल्ये वाच्यलिङ्गः । तत्र यथा-यशः शशाङ्कनीकाशं भृशं हासयते दिशः । प्रकाशः स्फुटहासयोः । उधोतेऽतिप्रसिद्ध च । प्रकाशते प्रकाशनं वा प्रकाशः। स्फुटातिप्रसिद्धयोयिलिङ्गः । स्फुटे यथा-उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव । हासे यथा-सप्रकाशो शरस्काशेरं भोजैः स्मेरलोचना । उद्योते यथा- ऐन्द्रयामसौ रोघरजःसवर्णो यथा प्रकाशो दिशि दृश्यतेऽत्र (दिदृश्यतेऽत्र)। अतिप्रसिद्ध यथा-श्रुतप्रकाशं यशसा प्रकाशः प्रत्युजगामातिथिमातिथेयः । प्रदेशो देशमात्रके । भित्तौ मानविशेषे च । प्रदिश्यतेऽसौ अनेन वा प्रदेशः। देशमात्रके यथा- पितुः प्रदेशास्तव देवभूमयः ॥७१६॥ भित्तिः कुड्यम् । मानविशेषे यथा-सागुष्ठया प्रदेशिन्या श्रवणौ समुपस्पृशेत् । अत्र हि प्रदेशो मानविशेषः । परिच्छेद्यत्वेन विद्यते यस्या इति कृत्वा तर्जनीप्रदेशिनीत्युच्यते । प्रादेश इति तु प्रज्ञादित्वात् स्वार्थे मण् । स्थानविशेषेऽपि मंखः । त्वत्प्रदेशपरिमार्जनपूतः पाणिरीश्वर कदा मम भूयात् । पलाशः किंशुकेऽस्त्रपे हरिते । पलति पलाशः । पलेराश: ( उ. ५३३ ) पलं मांसमश्नाति वा । किंशुकस्त्रिपत्रकः । अस्त्रपो राक्षसः । हरितो नीलकपिशो वर्णस्तत्र पुंसि । तद्वति वाच्यलिङ्गः । त्रिष्वपि यथा- यत्र पलाशा बहवः पदे पदे प्रोल्लसत्पलाशशिखाः कथमिव संचरसि वने तत्राऽस्मिन्न द्वितीयस्त्वम् । पलाशं पत्रे । यथा- वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् । पिंगाशं जात्यकाश्चने । पिंगत्व
१. पाशं छेदने मृतम् पक्षीयो गरडे विष्णो पिङ्गाशम् ।