SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ (२९४) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः 'निस्त्रिंशो निघृणे खड़े निर्देशः कथनाज्ञयोः । निर्वेशः स्यादुपभोगे मूर्छने वेतनेऽपि च ॥७१४॥ निवेशः सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः । निदेशः स्यादुपकण्ठे शासने परिभाषणे ॥७१५॥ ईश इति वा । त्रिष्वपि यथा- दौस्थ्यं गिरीशोऽपि न हर्तुमीशः । अथ तुंगी. शः । शशाङ्के शशिशेखरे। तुङ्गी रात्रिगौरी वा तस्याः ईशस्तुङ्गीशः । तुङ्गीशश्चन्द्रो विद्यतेऽस्येति वा । अभ्रादित्वादः । शशिशेखरः शम्भुः ॥७१३॥ निस्त्रिंशोनिर्धणे खङ्गे । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खगः । नञ् व्ययात् संख्याया डः । निघृणे तूपचारात् । तत्र वाच्यलिङ्गः द्वयोर्यथा-द्विषद्विनाशनिस्त्रिशे निस्त्रिशे यस्य संयति । निर्देशः कथनाज्ञयोः। निर्देशनम् निर्देशः । द्वयोर्यथालघुसंग्रहकारी च साधुशब्दप्रसिद्धकृत् । निर्देशः प्रथते देव तवायं पाणिनेरिव ॥ निर्वेशः स्यादुपभोगे मूर्छने वेतनेऽपि च । निर्विश्यते भुज्यते निर्विशत्यनेन निर्वेशः। उपभोगे यथा-संसारे नास्ति निर्देशः सद्भिः सत्कथनात्परः । सर्वकालं समरसे यत्र तृप्तिर्न जायते ।। मूर्छनं मोहः । वेतने कर्ममूल्ये यथा-क्रोडासरस्यामथ सन्नताङ्गयो हाराघलङ्कारशतानि ता ये । तास्तत्यजुर्वास्तवकान्तिशिल्पकारस्य निर्वेशमिव स्मरस्य ।। प्रसारेऽपि मंखः । यथा-पतितस्य शुद्धसलिले तैलस्य भवेद भृशं हि निर्वेशः ॥७१४॥ निवेशः सैन्यविन्यासे न्यासे दंगविवाहयोः। निवेशनं निवेशः निवसन्तेऽत्र वा । सैन्यविन्यासे यथा-न शून्यतामगमदसौ निवेशभूः प्रभुततां दधति बले चलत्यपि । न्यासमात्रे यथा-निवेशः स्वःसिन्धो. स्तुहिनगिरिवीथीषु जयति । द्रङ्गो नगरम् । तत्र यथा-द्विषां निवेशेषु चरप्रवेशः कार्यों नूपैः । विवाहे यथा-विनिर्ममे सुरेशेन निवेश: केशवधियोः । निदेशः स्यादुपकण्ठे शासने परिभाषणे । निकटो देशो निदेशः । निदेशनं वा । उपकण्ठं समीपम् । शासनमाज्ञा । परिभाषणं संकथा । उपकण्ठे परिभाषणे च यथा-वेश्यानिदेशे विवशो न कस्कः (कस्वः)। शासने यथा १. दुःस्पर्शस्तु खरस्पर्श कष्टकायां यवासके निस्त्रिंशो
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy