________________
-
तृतीया काण्डः
(२९३) कपिशौ सिल्हकश्यावौ कपिशा माधवी सुरा। कीनाशः क्षुद्रयमयोः कर्षकोपांशुधातिनोः ॥७१२॥ कुलिशो मत्स्यभित्पन्योः गिरिशो वाक्पतौ हरे।
अद्रिराजेऽथ तुङ्गीशः शशाङ्के शशिशेखरे ॥७१३॥ वाच्यलिङ्गः । निर्दयो निष्कृपः। करः क्षुद्रः । कम्पिल्यकं रागद्रव्यभेदः। कृपाणः खड्गः । इक्षुः पुण्डः । साहसिकोऽविमृश्यकर्ता । कासमर्दक औषधम् । परुषो दुःस्पर्शः। दृढो बली स्थूलो वा । निर्दये करे साहसिके परुषे दृढे च यथासमराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च । धनुषा सममाशु विद्विषां कुलमाशंकितभंगमानतिम् ।।७११॥ कपिशौ सिल्हकश्यावौ । कपिर्वर्णोऽस्त्यस्य कपिशम् । लोमादित्वात् शः । सिल्हको गन्धद्रव्यम् । श्यावे वर्णविशेषे पुंसि । तद्वति वाच्यलिङ्गः । तत्र यथा-चकाशे शालिकिंशारु कपिशा शामुखा शरत् । कपिशा माधवी सुरा । माधवी वासन्ती । सुरा हाला । द्वयोर्यथा-व्याकोशकोशकपिशां मधुपाः पिबन्ति । माधव्यां कपिशीत्यन्ये । कीनाशः क्षुद्रयमयोः । कर्षकोपांशुघातिनोः । कनति कीनाशः । कनेरीश्चात (उ. ५३४) इत्याशः । कीनं आममांसं अश्नाति वा । यमे पुंसि । अन्यत्र वाच्यलिङ्गः। राक्षसेऽपि । क्षुद्रः कृपणो लुब्धः कृतघ्नो वा । यदाह-लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्चयोऽश्नाति वाममांसं स कीनाशो यमश्चैव कीनाशस्तद्वतः क्षुद्र इति च । क्षुद्रे कर्षे च यथा-न क्षिपन्ति फलं क्षिप्रं कीनाशाः खलधाम सुक्षणात्तृणबुसप्रायशोदो यत्र न जायते । यमे यथा-नदेनमुलंघितशासन विधेर्विधेहि कीनाशनिकेतनातिथिम् । उपाशुघाती पररहस्यभेदी । छलधातुको वा ( छलघातको वा ) ॥ ७१२ ॥ कुलिशो मत्स्यभित्पन्योः । कुलिनंश्यति कुलिशः । कोलति वा । कुलिकनीति किशः कौलिश्यते वा । पवौ वने पुंक्लीबः । तत्र यथा-परिशिश्लिषुः क्षितिपतीन् क्षितीश्वराः कुलिशात्पारणगिरयो गिरीनिव । (यावत् वज्रेण न छिन्ना इति संबन्धः ।) गिरिशो वाक्पतौ हरे। अद्रिराजे । अदिराजे गिरामीशो गिरीशः । बाहुलकादीर्घाभावः गिरेगिरीणां पा