________________
(२९० )
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः राजीवमब्जे रौरवो भीषणे नरकान्तरे । वल्लवः स्यात्युपकारे गोदोग्धरि वृकोदरे ॥ ७०४ || वडवाऽश्विन्यां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् । वाडवं करणे स्त्रीणां वाडवौघे रसातले || ७०५ ॥ वाडवो विप्र और्वे च विद्रवो धीः पलायनम् । विभावः स्यात्परिचये रत्यादीनां च कारणे ॥ ७०६॥
1
राजीवमजे । यथा- प्राचीमंकुरयन्ति किञ्चन रुची राजीवजीवातव । रौrat भीषणे नरकान्तरे । रौ इति रवोऽस्य रौरवः, रोरवीति रोरवस्तस्यायमिति वा । भीषणे वाच्यलिङ्गः । तत्र यथा - कौरवा रौरवा येषां तेऽपि किं वीरकुञ्जराः । नरकान्तरे यथा - स याति नरके घोरे रौरवे पश्यते ध्रुवम् । वल्लवः स्यात्सूपकारे गोदोग्धरि वृकोदरे । वल्लते सम्वृणोति वल्लवः । वडिवटीत्यवः ( उ. ५१५ ) । सूपकारे यथा - वल्लवैर्वल्लपाकोऽपि कृतः स्यान्नृपवल्लभः । गोदोग्धरि यथा - कलशिमुदधिगुर्वी वल्लवा लोडयन्तः । वृकोदरोsपि विराटगृहे सूपकारत्वात् कल्लवः ||७०४ || वडवाऽश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् । वड आग्रहणे सौत्रः । वर्डात वडवा । वडिव - टीत्यवः ( उ. ५१५) । चतुर्ष्वर्थेषु । अश्वायां कुम्भदास्यां च यथा - पूर्णगर्भेव वडवा वडवा वत् (बत) सीदति । समग्रग्रामणी गेहविहितोदकपूरणा । स्त्रीभेदे यथानायिका त्रिधा मृगी वडवा हस्तिनी च । द्विजस्त्रियां यथा - वेदेषु वडवा नडा | वाडवं करणे स्त्रीणां वाडवैौचे रसातले । वडवाया इदं वाडवम् । वडवानां समूहो वा । षष्ट्या समूहे इत्यण् | ६ |२| ९| स्त्रीणां करणं वात्सायनप्रसिद्धम् । वाडवौघे यथा- भृशमकशकशाभिर्वाडवं ताडयन्ति । रसातलं पातालं । तत्र पुंक्लीबः ॥ ७०५ ॥ वाडवों विप्र और्वे च । वडवा अश्विनी ब्राह्मणी वा तदपत्यं वाडवः । शिवाद्यण् । द्वयोर्यथा - तृप्ति न याति मन्ये श्राद्धशतेनाप्यग्निमुखो विप्रः । जलमपि वाडवमुखगं भस्मीभवतीति नो चित्रम् ॥ विद्रवो धीः पलायनम् । विद्रवत्यनेन विद्रवणं वा विद्रवः । घीर्बुद्धिः । तत्र