________________
(२८९)
... तृतीयः काण्डः भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः। विष्णौ वसन्ते वैशाखे माधवी मधुशर्करा ॥७०२॥ वासन्ती कुट्टनी हाला राघवोऽब्धेषान्तरे ।
रघुजेऽप्यथ राजीवो मीनसारङ्गभेदयोः ॥७०३॥ रयं वा । परशुरामे यथा- भार्गवस्य सुकृतोऽपि सोऽभवत् स्वर्गमार्गपरिघो दुरत्ययः । सुधन्विनि-सुधनुर्धरे वाच्यलिङ्गः । मतङ्गनो गजः । दैत्यगुरौ शुक्रे यथाअवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव । भार्गवी तु कृष्णामयोः श्रियाम् । त्रिष्वपि यथा-सा भार्गवो स्वर्गसदां सदाऱ्या ॥७.१॥ भैरवो भीषणे रुद्रे रागभेदे । बिभ्यत्यस्मात् भैरवः। कैरवभैरवेति साधुः। भोषणे चाच्यलिङ्गः। तत्र यथा-रवः श्रवणभैरवः स्थगितरोदसी कन्दरः। रुदे यथापायात्स वो भैरवः । रागमेदे यथा- श्रीरागोऽथ वसन्तश्च भैरवः पञ्चमस्तथा । अथ माधवः । विष्णौ वसन्ते वैशाखे । मा लक्ष्मीस्तस्या धवो माधवः मधुरेव वा । प्रज्ञादित्वादण् । विष्णौ यथा-परिणतिमिति रात्रे गिधा माधवाय । वसन्ते यथा-परलोकविधौ च माधवस्मरमुद्दिश्य विलोलपल्लवाः । वैशाखे यथारेजतुर्गतिवशप्रवर्तिनौ भास्करस्य मधुमाधवाविव । माधवी मधुशर्करा । चासन्ती कुट्टनी हाला । मधुनो विकारो माधवी । मधौ चैत्रे पुष्यति वा मधुनि भवा वा । मधुशर्करा शर्कराभेदः ॥७०२॥ वासन्त्यां यथा-प्रत्यासन्नः कुरबकवृतेर्माधवीमण्डपस्य । कुट्टनी शम्भली । हाला सुरा । तयोर्यथा-माधवी माधवीप्रिया । राघवोऽब्धेषान्तरे। रघुजेऽपि । रावृड् सामर्थ्ये । राघते राघवः । कैरवभैरवेति साधुः (उ. ५१९)। रघोरपत्यमिति वा । अब्धेः समुद्रस्य झपान्तरं मत्स्यभेदः । रघुजे यथा-त्रपां क्षणमुपेक्ष्य हे नयत राघवं लाघवं पुरन्दरपराक्रमग्लपनचञ्चावाहवः (चञ्चवो वाहवः) । अथ राजीवो मीनसारभेदयोः । राज्यो रेखाः सन्त्यस्य राजीवः । मण्यादित्वाद्वः (उ०५१६) । मोनो मत्स्यः सारङ्गो मृगस्तयोर्भेदे यथा-राजीव राजीवित(ते)ते वनांते ॥७०३॥