________________
(२८८) अनेकाथसंग्रहः सटीकः :: द्वितीयो विभागः
पश्चत्वं भावे पंचानां प्राणानामत्ययेऽपि च । पार्थिवो नृपतौ भूमिविकारे पार्थिवी तुका ॥६९९॥ पुङ्गवो गवि भैषज्ये प्रधाने चोत्तरस्थितः । फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः ।।७००॥ भार्गवः परशुरामे सुधन्विनि मतंगजे ।
दैत्यगुरौ भार्गवी तु कृष्णामयोः श्रियाम् ॥७०१॥ यथा- रोषादधानाऽभिनिहितैककोणकमनीयेन पृष्ठतः। कक्षानिक्षिप्तपल्लवेन । रहसि यथा- नीलीभवन्नूतनशाद्वलेषु ध्यायन्ति धन्या नवपल्लवेषु ॥६९८॥ पंचत्वं भावे पंचानां प्राणानामत्ययेऽपि च । पंचानां भावः पञ्चत्वम् । देहस्य महाभूतारब्धत्वेन मरणेऽपि । प्रत्येकं स्वांशसंक्रमात् पंचभावः । द्वयोर्यथाएकोऽपि प्राप पंचत्वम् । पार्थिवो नृपतौ भूमिविकारे । पृथिव्या ईशः पार्थिवः । पृथिवी सर्वभूमेरीशज्ञातयोश्चाञ् (६-४-१५६ ) । पृथिव्या अयं पृथिव्यां भव इति वा । पृथिव्यानाञ् (६.१.१८) । नृपतौ यथा-बालोऽपि नावमन्तव्यो मनुष्य इति पार्थिवः । भूमिविकारे वाच्यलिङ्गः । तत्र यथा पर्वताः पार्थिवाः खलु । पार्थिवी तुका । तुका वंशरोचना ॥६९९॥ पुङ्गवो गवि भैषज्ये प्रधाने चोत्तरस्थितः । पुमांश्चासौ गौश्च पुंगवः। गोस्तत्पुरुषात् इत्यत् समासान्तः । गवि यथा- स्वेदोद्गमः प्रादुरभूदुमायाः स्विन्नानुलिपुंगवकेतुरासीत् । भैषज्यमौषधम् । उत्तरपदस्थितः प्रधाने यथा- स एष भृगुपुंगवो गिरिशवालशिष्यो मुनिः । फेरवो राक्षसे फेरौ । फे इति रवोऽस्य फेरकः । द्वयोर्यथा- श्मशाने रजनी निन्ये भैरवो फेरवारवैः । बान्धवो बन्धुमित्रयोः । बन्धुरेव बान्धवः । प्रज्ञादित्वादण् । बन्धौ यथा- ये यान्त्यभ्युदये प्रीति नोज्झन्ति व्यसनेषु च । ते बान्धवास्ते सुहृदो लोकः । स्वार्थपरो परः। मित्रे यथा-मिथ्यावादिनि ति बान्धवजनस्याज्ञातपीडागमे॥७००॥ भार्गवः परशुरामे सुधन्विनि मतंगजे दैत्यगुरौ । भृगोरपत्यं भार्गवः भृगो