________________
तृतीयः काण्डः
(२८७) प्रसवः पुष्पफलयोरपत्ये गर्भमोचने । उत्पादे च प्रसेवस्तु वीणास्यूतयोहतौ ॥१९७॥ प्रभावस्तेजसि शक्तौ पल्लवः किसले वले ।
विटपे विस्तरेऽलक्तरागे शृङ्गारपिङ्गयोः ॥६९८॥ र्थेषु । जन्मकारणं पित्रादि । तत्र यथा-क सूर्यप्रभवो वंशः क चाल्पविषयामतिः । आद्या प्रथमा । उपलब्धिदर्शनम् । गंगादीनां तदर्थ स्थानम् हिमवदादिः । तत्र यथा-सुरापगायाः प्रभवो हिमाचलः । अपां मूले यथा- प्रभवन्ति प्रभवे नद्यः संकीर्णाः पृथवः पुरः । मुनिभेदे यथा- शिष्यो जम्बुमहामुनेः प्रभव इत्यासीत् । सम्वत्सरभेदेऽपि । यथा- प्रभवे यज्ञकर्मणि ॥६९६॥ प्रसवः पुष्पफलयोरपत्ये गर्भमोचने । उत्पादे च । प्रसूयते प्रसवनं वा प्रसवः । पंचस्वर्थेषु । पुष्पे यथा- गणा न मेरुप्रसवावतंसाः । फले यथा- माकन्दपुष्पप्रसवैर्विहस्ताम् । अपत्ये यथा- दुस्ल्यजः प्रसवस्नेहः पशूनामपि पश्यत । गर्भमोचने यथा- न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् । उत्पादे यथाजातः क्रमेण मदनप्रसवः कृशाङ्गायाः। प्रसेवस्तु वीणांगस्यूतयोहतौ। प्रसीव्यते प्रसेवः । वीणांगं ककुभाख्यं दण्डाधः शब्दगाम्भीर्यार्थ दारुमयं भाण्डम् । यद भस्त्रयाच्छाद्यते । तत्र यथा- प्रसवमूले स बबन्ध तन्त्रीम् । स्यूतो वस्त्राचावपनम् । दृतिरालश्चर्ममयी । तयोर्यथा- प्रसेवसंस्थापितदेववस्त्रैः ॥६९७॥ प्रभावस्तेजसि शक्तौ । प्रभवत्यनेन प्रभावः । बाहुलकाद् धञ् । तेजसि प्रतापे यथा- यत्पुनः स्तीयतेऽम्भोधिः प्रभावप्राभवो हि सः । शक्तिः सामर्थ्यम् । तत्र यथा- अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । पल्लवः किसले वले । विटपे विस्तरेऽलक्तरागे शंगारषिङ्गयोः। पल्लति पल्लवः । वडिवटी (उ. ९१५) त्यवः । सप्तस्वर्थेषु । किसले 'क्लोबः। तत्र यथा- तेनामरवधूइस्तसदयालूनपल्लवाः । वलं स्थाम । विटपे शाखायां यथा- सहस्रशो मंजरिताश्च पल्लवाः। कला च पुंस्कोकिलवाचि वर्तते । विस्तारे यथा- वाचः पल्लविता इव । अलकरागे शंगारे षिड्गे च यथा- पल्लवः कामिवल्लभः । पत्र मात्रे वस्त्रैकदेशे रहसि च मंसः। पत्रमात्रे यथा- तन्वीमेकजलाईपल्लवतया। वस्त्रैकदेशे