________________
(२८६)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
ताण्डवं तृणभिन्नाटच भेदयोः त्रिदिवन्तु खे । स्वर्गे च त्रिदिवा नद्यां द्विजिहः खलसर्पयोः ॥ ६९४॥ निह्नवः स्यादविश्वासेऽपलापे निकृतावपि । निष्पावः पवने शूर्पपवने निर्विकल्पके ॥ ६९५ ॥ वल्ले करे शिव्यां प्रभवो जन्मकारणे । आद्योपलब्धये स्थानेऽपांमुळे मुनिभिद्यपि॥ ६९६ ॥
न्यानां शितशरशतैर्यगाण्डीवधन्वा धारापातैस्वमिव कमलाम्यल्पवर्षन् मुखानि । गाण्डिवशब्दो द्वयोर्यथा - गाण्डिवेन हि रिपून् कुरु षितान् कुर्वता - यशस्त्वयार्जितम् || ६९३ ॥ ताण्डवं तृणभिन्नाट्यभेदयोः । तण्डोरिदं तण्डुना प्रोक्तं वा ताण्डवम् । पुंक्लीबः । नाट्यभेदे यथा - चण्डीशः पातु वो यस्य ताण्डवे क्षितिमण्डलम् । त्रिदिवन्तु खे स्वर्गे च । तृतीयं दिवं त्रिदिवम् । मयूरव्यंसकादित्वात् । स्वर्गे पुंक्लोव: । द्वयोर्यथा - श्रियो वासां भोजे त्रिदिवस रिदम्मोजकुहरे हरेर्नाभीप मधुमधुकरो यः किल पपौ । त्रिदिवा नद्याम् । त्रिषु दीव्यति त्रिदिवा । यथा पिबत्वं देव यदि वा त्रिदिवाम्बु दिवानिशम् । द्विजिहः खलसर्पयोः । द्वे जिले वचने रसने वाऽस्य द्विजिह्नः । द्वयोर्यथा वाग्विषस्य द्विजिह्नस्य विश्वासं कोऽधिगच्छति ||६९४॥ निह्नवः स्यादविश्वासेऽपलापे निकृतावपि । निह्नवनं निह्नवः । अविश्वासोऽप्रत्ययः । निकृतिः शाठ्यं तयोर्यथा - को मे निरपराधस्य सखे निह्नव एषते । अपलापे यथा-तेन माधवमालत्योः कार्यः स्वमतिनिह्नवः । निष्पावः पवने शूर्पपवने निर्विकल्पके । वल्ले कडङ्गरे शिव्याम् । निष्पवनं निष्पूयते वा निष्पावः । निरमेः पूल्ब (५.३.२१) इति घञ् । षट्स्वर्थेषु । पवनम् सामान्यपवनम्, । शूर्पेण पवनम् शूर्पपवनम् । निर्विकल्प के कृतनिश्चये वाच्यलिङ्गः ||६९५॥ वल्लो धान्य मेदः । कडङ्गरो बुसम् । शिम्बी बीजकोशी । सर्वेषु यथा - निष्पावनिष्पावकृतः कृषीवलान् । प्रभवो जन्मकारणे । आद्योपलब्धये स्थानेstiमूले मुनिभिद्यपि । प्रभवनं प्रभवत्यस्मात् । प्रभवति वा प्रभवः । चतुःष्व