________________
- तृतीयः काण्डः
(२८५)
पुन्नागे वासुदेवे च कैतवं धूतदम्भयोः । कैरवः कितवे शत्रौ कैरवं सितपङ्कजे ॥६९१॥ कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे । पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे ॥६९२॥ अन्तरा भवदेहे च गालवो मुनिलोध्रयोः ।
गाण्डीवगाण्डिवो चापमात्र पार्थधनुष्यपि ॥६९३॥ वृक्षः। कैतवं धृतदम्भयोः । कितवस्य भावः कर्म वा कैतवम् । युवादित्वादण् । द्वयोर्यथा-कैतवेन कुरुभिर्विजिता भूः । कैरवः कितने शत्रौ । करोति कैरवः । कैरवभैरवेति (उ. ५१९) साधुः । कितवः शठः । शत्रुररिः । तयोर्यथा-त्वयि भास्वत्युदिते सर्वतेजोमिभाविनि । उन्मीलति धरानाथ किं कैरवकुलं कचित् । कैरवं सितपङ्कजे । कैरवो हंसस्तस्येदं कैरवः । यथाअर्द्धमुन्मिषति कैरवाकरे साधुपंकजवने निमीलति ॥६९१॥ कैरवी तु चन्द्रिकायाम् । कैरवं देवताऽस्याः कैरवी । यथा-कैरवी भैरवीभूता वियोगे हरिणीदृशः । गन्धर्वस्तु नभश्चरे । पुस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तरा भवदेहे च । गन्धयतेऽईयते गन्धर्वः । गन्धेरान्त (उ.५०८) इति वः । नभश्चरे यथा-अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् । पुस्कोकिले गायने च यथा-सहकारवनस्यांतश्चार्यों गन्धर्वगीतयः । मृगभेदे तुरङ्गमे च यथा-गन्धर्वैः सर्वतो व्याप्तां महिषीपरिवारिणीम् । राजधानीमिव निजां वनभूमिममन्यत ॥६९२॥ अन्तरा मरणजन्मनोमध्ये यो देहो यातनाशरीरं सोऽन्तराभवदेहः । यदाहुः-अन्तराभवदेहादि नेष्यते विन्ध्यवासिना । तत्र यथा-गन्धर्वदेहेन दिवं जगाम । गालबो मुनिलोध्रयोः । गलति गालवः । कैरवभैरवेति साधुः । मुनिर्मुनिविशेषः । लोध्रा वृक्षविशेषः । गाण्डीवगाण्डिवौ चापमात्रे पार्थधनुष्यापि । गाण्डो गाण्डिश्च पर्व विद्यतेऽम्य गाण्डीवः । गाण्डिवः मण्यादित्वाद्वः । पुंक्लीबो । चापमात्रे यथा-गाण्डीवदण्डेन विखण्डिता श्वो भूपालमौलियुधि कुन्तलेशः । पार्थधनुषि यथा-राज