________________
(२८४) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
उत्सवे ऋतुवह्नौ चोत्सवोऽमर्षे महेऽपि च । इच्छाप्रसर उत्सेके कारवीकृष्णजीरके ॥ ६८९॥ दीप्ये मधुरात्वपत्र्योः कितवः कनकाहये ।
मत्ते च वश्चके चापि केशवः केशसंयुते ॥ ६९० ॥ वा । प्रज्ञादित्वादण् । ऋतूद्धवे वाच्यलिङ्गः । तत्र यथा-पुष्पं फलं चार्तवमाहरन्त्यः काठे च बीजं यदि कृष्टरोहि । नारीरजसि यथा-आर्तवं द्वादशे वर्षे योषितां वर्तते खलु । पुष्पं कुसुमम् । उद्धवः केशवमातुले । उत्सवे ऋतुवह्नौ च । उत्कर्षेण जुहोति इयते वा उद्धवः । केशवमातुले यथा-सार्द्धमुद्धवसोरिभ्यामथासावासदत्सदः ॥ ६८८ ॥ उत्सवे यथा-नृत्यद्वरवधूलोलवलयावलिशिजया । विद्ध उद्धवसम्बद्धो गीतिशब्दो हरत्यसौ । ऋतुवह्नो च यथा-भालमुद्धलितं तेन समिद्धोद्धवभस्मभिः । उत्सवोऽमर्षे महेऽपि च । इच्छाप्रसर उत्सेके। उत्सूयते उत्सवनं वा उत्सवः । चतुःष्वर्थेषु । अमर्षो रौद्रभावः । उत्सेको वीरभावः । तयोर्यथा-ववृते मरणोत्सवोऽस्य चित्ते यदितो वाग्भिरसावसारयत्तम् । महेक्षणे यथा-उत्सवोऽपि दरिद्रस्य दुःखाय न सुखाय च । इच्छाप्रसरे यथा-आलिङ्गनो दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् । इच्छायाः प्रसवे उत्पत्तो इत्यमरटोका । कारवी कृष्णजीरके। दोप्ये मधुरात्वपत्र्योः । करोति कारवा। कैरवभैरवेति साधुः । गौरादित्वाडोः ॥६८९॥ दीप्योऽजमोदा । मधुरा शतपुष्पा । त्वक्पत्रो ओषधिः । कितवः कनकाहये मत्ते च वंचके चापि । कित् निवासे इत्यस्य किति कुडीति । कित्यवे कितवः किं तवास्ति वा । पृषोदरादित्वात् । कनकायो धत्तरः । मत्ते वञ्चके च वाच्यलिङ्गः तयोर्यथा-दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति । द्यूत कारेऽपि मंखः । यथा हि-वंचितास्मि कितवेति कलं वदन्ती । केशवः केशसंयुते । पुन्नागे वासुदेवे च । प्रशस्ता केशा वालाः शिफा वा अस्य सन्ति केशवः । केशाद् इति वः । केशसंयुते वाच्यलिङ्गः । तत्र वासुदेवे च यथा-केशवोऽपि न कृष्णो यः ॥६९०॥ पुन्नागो