________________
तृतीयः काण्डः
(२८३) मुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः । कलादे शरटे ग्रावभिद्यभावः पुनमतौ ॥६८६॥ असत्तायामथाक्षी वशिरे मदवजिते । आहवः समरे यज्ञेऽप्याश्रवो वचस्थिते ॥६८७॥ प्रतिज्ञायां च क्लेशे च स्यादातवमृतद्भवे । ,
नारी रजसि पुष्पे चोद्धवः केशवमातुले ॥६८८॥ याम् मुतलोऽलिट्टाकाबन्धे पातालभुवनान्तरे । शोभनं तलमस्य सुतलः । अट्टालिकाबन्धः प्राकारशिखरे योधरक्षाहेतुः सन्निवेशविशेषः ।।६८५॥ पातालभुवनान्तरं पुराणप्रसिद्धम् । सुवेलः प्रणते शान्ते गिरिभेदे । सुष्टुवेलति शोभना वेलाऽत्र वा सुवेलः । प्रणतशान्तयोर्वाच्यलिङ्गः । त्रिष्वपि यथा-वलाक्रान्तः शत्रुः समजनि सुवेलो गिरिरिव । अथ हेमलः॥ कलादे शरटे ग्रावभिदि । हेमं लाति हेमलः । हिनोति वा । मुरलोरलेति (उ.४७४) साधुः । कलादः सौवर्णिकः । सरटः कृकलासः । प्रावभित् दृषद्भेदः । अभावः पुनर्मतौ । असत्तायाम् । न भवनमभावः। मृतो यथा- कष्टं मातुरभावेन जीवन्ति शिशवः खलु ॥ ६८६ ॥ असत्तायां यथा- सान्निध्ययोगात्किल तत्रशच्या: स्वयम्वरक्षोभकृतामभावः । अथाऽक्षीवं वशिरे मदवर्जिते । अक्षोति अक्षीवम् । प्रह्वाहेति (उ. ५१४) साधुः। न क्षीवते स्म वा । अनुपसर्गाः क्षीवेति साधुः 1४।२।८०। वशिरः (२)सामुन्द्रं लवणम् । मदवर्जिते वाच्यलिङ्गः । तत्र यथाअक्षावं तत्क्षणाज्जातं नाम्नैव तव शात्रवम् । आहवः समरे यज्ञेऽपि । आहूयन्ते योद्धारोऽत्रेति आहवः । माहो युद्धे इत्यल्वा । शब्दस्य चोत्वम् । आजुहृत्यत्र वा। पंनाम्निः द्यः। समरे यथा-बाणाहकयाहतशम्भुशक्तरासत्तिमासाद्य जनार्दनस्य । यज्ञे यथा-समाजुहावाहवहव्यलोलुपान् । आश्रयो वचनस्थिते । प्रतिज्ञायां च क्लेशे च । आशृणोति आश्रवणं वा आश्रवः । वचनस्थिते वाच्यलिङ्गः । त्रिष्वपि यथाधीराणामात्रवे तोषः ॥६८७॥ स्यादातवमृतूद्भवे । नारीरजसि पुष्पे च । ऋतौ भवं मार्तवम् । ऋतुः प्राप्तोऽस्येति वा । ऋत्वादिभ्योऽण। ऋतुरेव