________________
तृतीयः काण्डः
(२९१) विभवो धननिवृत्योः शात्रवं शत्रसंचये । शत्रुत्वे च शात्रवः सेम्भवः कारणे जनौ ॥७०७॥ आधेयस्याधारानतिरिक्तत्वे च जिनेऽपि च ।
सचिवः सहायेऽमात्ये सुषवी कृष्णजीरके ॥७०८॥ यथा- भयो द्रवति विद्रवात् । पलायने यथा-त्वत्कीर्तनं द्रुतमुपद्रवविद्रवाय । विभावः स्यात्परिचये रत्यादीनां च कारणे । विभावनं विभावः । वागाद्यभिनयसहिताः । स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते ज्ञायन्तेऽनेन वा । परिचये यथा-विभावेन विभूनां हि वैभवं स्यान्न संशयः । रत्यादेः कारणे यथा-बहवोऽर्था विभाव्यन्ते वागंगाभिनयाश्रयाः । अनेन यस्मात्तेन विभाव इति संज्ञितः ।।७०६॥ विभवो धननिवृत्योः । विभवत्यनेन विगमो भवस्य अत्रेति विभवः । निर्वृतिनिर्वाणम् । द्वयोर्यथा-प्रभाते पादयोः स्पृष्टा प्रभाते शिरसा प्रभो । विभवं वितनोत्याशु विभवं च पदं नृणाम् । शात्रवं शत्रुसंचये। शत्रुत्वे च । शत्रूणां समूहः शात्रवम् । षष्ठ्या समूह इत्यण् । शत्रोर्भाव इति वा। युवादेरण् ।७।११६७) द्वयोर्यथा- वितनोति न संग्रामे शात्रवं यस्य शात्रवम् । शात्रवः शत्रौ । शत्रुत्वे च शात्रवः । प्रज्ञादित्वादण ७।२।१६५। यथा-सैन्यं विजिग्यो युषि शात्रवाणाम् । सम्भवः कारणे जनौ । आधेयस्याधारानतिरिक्तत्वे च जिनेऽपि च । सम्भवत्यस्मात् सम्भूतिर्वा सम्भवः सम्भवनमिति वा । चतुर्वर्थेषु । कारणं हेतुः। जनिरुत्पत्तिः । जिनस्तृतीयस्तीर्थकरः । तेषु यथा-दिश्याद्वः सम्भवः सौख्यं निरस्तभवसम्भवः ॥७०७॥ आधेयस्य वस्तुन आधारात् अनतिरिक्तत्वमनाधिक्यम् । यथा-सम्भवति द्रोणः स्थाल्याम् । तत्र यथा-अस्मिन् क्षत्रियवंशजेन महतो वोर्यस्य नो सम्भवः । उपपत्तावपि मंखः । तत्र यथा-तेजस्तिमिरयोर्नास्ति सहावस्थानसम्भवः । समयेऽपि । सचिवः सहायेऽमात्ये। सचते सचिवः । पलिसचेरिवः (उ.५२२) सहाये यथा-धत्ते वक्षः कुचसचिवतामद्वितीयन्तु वक्त्रम् । अमात्ये यथा-तेन जगतो १. शत्रौ पाण्डवो रसभावयोः । सम्भवो जनने हेतौ मेलके चारुजन्मनि ।