________________
.... तृतीयः काण्डः । श्रीखण्डे पुष्पकासीसासनपयों: शिलोद्भवे । शृगालो दानवे फेरौ शगाली स्यादुपप्लवे ॥६८१॥ शंखलं पुंस्कटीकांच्या लोहरज्जौ च बन्धने ।
शौष्कलः शुष्कमांसस्य पिंडके पिशिताशिनि ॥६८२।। हं हो शाल्मलिपादप प्रतिदिनं को न त्वया वंचितः । द्वीपे यथा-द्वीपस्य शाल्मलिरिति प्रथितस्य नाथः पाथोधिना वलयितस्य सुराम्बुनीयम् । शीतलः शिशिरेऽहति । श्रीखण्डे पुष्पकासीसासनपर्यो: शिलोद्भवे । शोतमस्त्यस्य शीतलः । सिध्मादित्वात् ७।२।२१। लः शेते वा । शिङस्तलगिति (उ. ५०१)- तलक । शिशिरे गुणे पुंसि ! तद्वति वाच्यलिङ्गः । तत्र यथा-तामुस्थाप्य स्वजलकणिकाशीतलेनानिलेन । अर्हन् दशमस्तीर्थकरः । तत्र यथास्याद्वादामृतनिस्यन्दी शीतलः पातु वो जिनः ॥६८०॥ श्रीखण्डं चन्दनम् । पुष्पकासीसं कासीसविशेषः । आसनपी ओषधिः । शिलोद्भवं धातुविशेषः । गौडस्तु श्रीखण्डपुष्पकासीसशैलेयेषु नपुंसकम् । पुमानासानपा स्याच्छीतलः शिशिरे त्रिष्वित्याह । शृगालो दानवे फेरौ । शुणो(णा)ति शगालः । चात्यालेति (उ. ४८०) साधुः । फेरो यथा-वरं वृन्दावने रम्ये शगालत्वं परीप्सति । फेरो दन्त्यादिरप्ययम् । तत्र असृग् गिलति पृषोदरादित्वात् साधुः । शगालो स्यादुपप्लवे । उपप्लवो डमरः । तत्र स्त्रियाम् ॥६८१॥ शंखलं पुंस्कटीकाच्यां लोहरज्जौ च बन्धने । शणोणा)ति शंखलम् । श्रोनोत्तो हस्वश्चेति (उ. ४९८ ) खलः । त्रिलिङ्गः । पुंस्कटीकांच्यां यथाकपालमालाखट्वाङ्गधारी लोलास्थिशंखलः । महापाशुपतो भीमः श्मशानस्य च विग्रहः ॥ लोहरज्जौ यथा-कलत्रं निगडं दत्वा न सन्तुष्टः प्रजापतिः । भूयो. ऽप्यपत्यदानेन बबन्ध गलशंखलम् । बन्धाने बन्धमात्रे यथा-विशंखलं शंखलकाः प्रतस्थिरे । शौष्कलः शुष्कमांसस्य पणिके पिशिताशिनि । शुष्कं मांसं लाति शुष्कलः । प्रज्ञादित्वात् (७।२।१६५ ) अणि ॥ शौष्कलः वाच्यलिङ्गः ।