________________
(२८०) अनेकार्थसंग्रहः सटोकः :: द्वितीयो विभागः
पाथेये च शयालुस्तु निद्रालौ वाहसे शुनि । . श्यामला पिप्पले श्यामे शार्दुलो राक्षसान्तरे ॥६७९॥ व्याघ्र च पशुभेदे च सत्तमे तृत्तरस्थितिः ।
शाल्मलिः पादपे द्वीपे शीतलः शिशिरेऽर्हति ॥६८०॥ वा। मनुस्तु वृषो हि भगवान् धर्मस्तस्य यः कुरुते त्वलम् (निषेधम्)। वृषलं तं विजानीयादित्याह। तुरगे यथा-अकृत्ववृषणवीजं वृषलैक्षिप्यते खलु । शूद्रे यथान पाट्यो वृषलेर्वेदः । शकलं रागवस्तुनि । वल्कले त्वचि खण्डे च । शक्नोति शक्यते वा शकलम् । मृदिकन्दी (उ. ४६५) त्यलः । खण्डे पुंक्लीबः । रागवस्तुनि यथा-वस्त्रैः शाकलिकैः कलां कलयसि स्मेराक्षि लोकोत्तरम् । अत्र हि शकलेन रक्तानि शाकलिकानि वस्त्राणि । शकलकर्दमाद्वे ।६।२।३। ति इकण् । वल्कले त्वचि च यथा- तरुशकलैरपि मुनयः कालं गमयन्ति कानने यस्मात् । खण्डे यथा-शीतलेन निरवाप यत्क्षणं मौलिचन्द्रशकलेन शूलिनः । शम्बलं मत्सरे तटे । पाथेये च। शाम्यति शम्बलम् । शमिकमिपलिभ्यो वलः (उ. ४९९)। शं सुखेन वलतेऽस्माद्वा । पाथेये पुंक्लोबः। मत्सरो रोषः । तटं क्लम् ॥६७८॥ पाथेये यथा-धर्म एव परे लोके शम्बलं गदितं बुधैः । शयालुस्तु निद्रालौ वाहसे शुनि । शयनशीलः शयालुः । शीश्रद्धानिद्रेत्यालुः ।५।२।३७। निद्रालौ वाच्यलिङ्गः । तत्र यथा-हन्ति नो पशयस्थोऽपि शयालुमंगयुर्मुगम् । वाहसोऽ. जगरः । श्वा कुक्कुरः । श्यामलः पिप्पले श्यामे । श्यामो वर्णोऽस्य श्यामलः । सिध्मादित्वाल्लः ।।२।२१। पिप्पलोऽश्वत्थः । श्यामे गुणे पुंसि । तद्वति वाच्यलिङ्गः । तत्र यथा-स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घनाः । शार्दुलो राक्षसान्तरे । व्याघ्र च पशुभेदे च सत्तमे तृत्तरस्थीतिः । शणोति शार्दूलः । दुकूल कुकूलेति (उ. ४९१) साधुः ॥६७९॥ व्याघ्र पशुभेदे च यथा-सदेवदारुदुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् । उत्तरपदस्थः सत्तमे यथा-उत्तिष्ठ नरशार्दूल समुन्मूलयविद्विषः । शाल्मलिः पादपे द्वीपे । शालते शाल्मलिः । माशालिभ्यामोकलिमली (उ. ७०३) स्त्रीपुंसः । पादपे यथा