________________
तृतीयः काण्डः
(२७९) वानीरे चाथ वण्ठालः शूरयुन्नौखनित्रयोः । वातूलो वातले वातसमूहे मारुतासहे ॥६७६।। वामिलो दाम्भिके वामे विपुलः पृथ्वगाधयोः। विपुलाऽऽर्याभिदि क्षोण्यां विमलोऽर्हति निमेले ॥६७७॥ वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि ।
वल्कले त्वचि खण्डे च शम्बलं मत्सरे तटे ॥६७८॥ साधुः । त्रिष्वपि यथा--याते द्वारवर्ती तदा मधुरिपौ तदत्तशम्पानतां कालिन्दीतटरूढवंजुललतामालिंग्य सोत्कण्ठया ।।६७५।। अथ वण्ठालः शूरयुन्नौखनित्रयोः । वण्ठयोरालमत्र वण्ठैरल्यते वा वण्ठालः । शूरयोयुत् युद्धम् शूरयुत् । नावः खनित्रं नौखनित्रत् । तयोः । वातूलो वातले वातसमूहे मारुतासहे । वातोऽस्त्यस्य वातूलः । वलवातदन्तललाटादूलः ।७।२।१९। वातानां समूहो वा । गोरथवातादित्यूलः ।६।२।२४। वातस्य समूहो वा । वलवातादूलः । वातसमूहे पुंसि । शेषयोर्वाध्यलिङ्गः । वातले यथा-सुतनुर्वातूलतां लम्भिता । वातसमूहे यथा-वातुलसंचालततुललवावलोभिर्जातो जनो युवजरन् पथिकश्चलन्ति (चकास्ति)। मारुतमासहते इति सहेराडप्रश्लेषः । मारुतं न सहते इत्यर्थे तु कुलप्रत्ययो बाहुलकात् ॥६७६!। वामिलो दाम्भिके वामे । वामः प्रतिकूलत्वं सत्यत्वं वा अस्त्यस्य वामिलः । बाहुलकादिलः । वाच्यलिङ्गः । विपुलः पृथ्वगाधयोः । विपुलति विपुलः । वाच्यलिङ्गः । पृथौ यथाविपुलतरनितम्बा भोगरुद्धे रमण्याः । शयितुमनधिगच्छन् जीवितेशोऽवकाशम् । अगाधे यथा-विपुलमतिभिः कैरप्येतज्जगज्जनितं पुरा। विपुलाऽऽर्याभिदि क्षोण्याम् । आर्याभेदे यथा-आयेषु त्रिषु पादो भवति भवति तु पथ्या विपुला तु यान्यथा पादभाक् । क्षोण्यां यथा-भूप त्वदीययशसां विपुलापि हि संकटवेयम् । विमलोऽर्हति निर्मले । विगतो मलोऽस्य विमलः । अर्हन् त्रयोदशस्तीर्थङ्करः। तत्र यथा-विमलस्वामिनो वाचः कतकक्षोदसोदराः। निर्मळे वाच्यलिङ्गः । तत्र यथा-खया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे ॥६७७॥ वृषलस्तुरगे शूद्रे । वर्षति वृषलः । तृपिवपीति (उ. ४६७) किदलः । वृष लाति