________________
(२७८)
अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः रसाल इक्षौ चूते च रसालं बोलसिल्हयोः । रसाला दूर्वाविदार्योणिहामार्जितयोरपि ॥६७३॥ रामिलो रमणे कामे लागृलं शिश्नपुच्छयोः । लागलं तालहलयोः पुष्पभिद्गृहदारुणोः ॥६७४॥ लाङ्गली जलपिप्पल्या लोहलोऽस्फुटवादिनि ।
शंखलाधार्ये वजुलस्त्वशोकतिनिशत्रुमे ॥६७५॥ ग्रहीतव्यानि कोविदैः ॥६७२।। रसाल इक्षौ चूते च । रसमालाति रसालः । इक्षौ यथा-नरजन्मरसालस्य मध्यभागः प्रशस्यते । चूते यथा-मलयपवनाकम्पोत्फुल्लद्रसालरसालसाः सपदि मधुपाः पुष्पेष्वन्येष्वनादरमासते । नवमुपनतं (नयमुपवन) मुंजानानां मनाक् मलिनात्मनां चिरपरिचितेऽवज्ञावास्यादिहेति किम - तम् ॥ रसालं बोलसिल्हयोः । बोलः सिल्हश्च ओषधे । रसाला दर्वा विदार्योंजिहामार्जितयोरपि । दूर्वा विदारी च ओषधिः । जिह्वा रसना । तत्र यथा- रदानां चर्वणक्लेशो रसालैव रसालयः । मार्जिता शिखरिणी । तत्र यथा-एषा वृकोदरकृता सुरसा रसाला ॥६७३॥ रामिलो रमणे कामे । रमते रमयति वा रामिलः । स्थण्डिलकपिलेति (उ. ४८४) साधुः । रमणो भर्ता। कामः स्मरः । लाङ्ग्रलं शिश्नपुच्छयोः । लङ्गति लालिम् । दुक्लकुकूलेति (उ. ४९१) साधुः । पुंक्लोबः । द्वयोर्यथा-को हि शादूललाशूलसमूलोन्मूलने बली। लाङ्गलं तालहळयोः पुष्पभिद्गृहदारुणोः । लंगति लांगलम् । नहिलंगेदीर्घश्च (उ. ४६६) इत्यलः । तालो वृक्षस्तत्फलम्वा । हले यथा-हलमगुवलस्यैकोनड्वान् हरस्य न लाङ्गलम् ॥ क्रमपरिमिता भूमिविष्णो न गौर्नच लाङ्गलम् ॥६७४॥ लांगली जलपिप्पल्याम् । गोरादित्वात् १२।१।१९। डीः । लोहलोऽस्फुटवादिनी । शंखलाधायें । लुहेः सौत्रस्य मुरकोरलेति (उ. ४७४) निपातनात् लोहलः । लोहं लाति वा । वाच्यलिङ्गः । अस्फुटवादी भव्यकवता । शंखलया यत् धियते तत् शृंखलाधार्यम् । वजुलसत्वशोकतिनिशद्रमे । वानीरे च । वजति वंजुलः । कुमुलतुमुति (उ.४८७)