________________
तृतीयः काण्डः
(२७७) धत्तुरेऽहिब्रीहिभिदोः पितुः श्यालेऽथमाचलः । बन्दि चौरे रुजि ग्राहे मुसलं स्यादयोग्रके ॥६७१॥ मुसली तालमूल्याखुकणिका गृहगोधिका ।
मेखलादिनितम्बे स्याद्रसनाखड्गबन्धयोः ॥६७२॥ श्याले । मां तुलयात मातुलः । मातुः भ्राता वा । पितृमातुाडुलं भ्रातरीति ।६ । २। ६२ । डुलप्रत्ययः ॥ ६७० ॥ धत्तुरे यथा-दारिकाबीजमाज्यं च राजसर्षप एव च । मातुलेन समायुक्तो धूपः सर्वज्वरापहः ॥ अहिब्रोहिभिदोरिति अहिभेदे वोहिभेदे च । पितुः श्याले यथाअधमा मातुलैः ख्याताः श्वशुरैस्वधमाधमाः । अथ माचलः । बन्दिचौरे रुजिग्राहे । मा लक्ष्मीः, तदर्थ चलति न चलति वा माचलः । बन्दिग्राहीचौरो बन्दिचौरः । रुक् रोगभेदः । ग्राहो मत्स्यादिः । मुसलं स्यादयोग्रके । मुसच खण्डने दन्त्यान्त्यः । मुस्यत्यनेन मुसलम् । तृपिवपीति (उ. ४६७) किदलः । मुहुः स्वनं लाति मुहुर्मुहुर्लसति वा । पृषोदरादित्वात् ।३।२।१५५॥ पुंक्लीवः । अयोग्रं आयुधविशेषः । क्षोदोपकरणं वा। आयुधविशेषे यथा- सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसलपाणिना । क्षोदोपकरणे यथा-मुसलक्षेपहुंकारस्तोभैः कमलखण्डिनि । कुचविष्कम्भमुत्तम्नन्निष्कुम्नातीव ते स्मरः ॥६७३॥ मुसली तालमूल्याखुकणिका गृहगोधिका । तालमुली आखुकर्णी च ओषधिः । गृहगोधिका पल्ली। तत्र यथा-मद्गेहे मुसलीव मूषिकवध मूषीव मार्जारिका मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः । मेखलादिनितम्बे स्याद्रसना खड्गबन्धयोः। मिन(नो)ति मेखला । मिगः खलश्च एच्चेति । खलः । मेहनस्य वन्तस्य माला वा । पृषोदरादित्वात् । अद्रिनितम्बे यथा-वन्धैः पुंसां रघुपतिपदैरङ्कितं मेखलासु। रसना कांची । खड्गबन्धः प्रत्याकारवर्घिका, यया खङ्गो निःसरन् रक्ष्यते.। यया अश्ववाराः कक्षादौ खङ्गं लम्बयति वा । रसनाखङ्गबन्धयोर्यथा-पाणिग्रहणमेतस्या विधिना विहितं त्वया । निर्मेखला त्वसिलता गले लगति विद्विषाम् । मौञ्ज्यामपिमंखः । यथा-मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि