________________
(२७६)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः संघाते कुष्टभेदे च मञ्जुलन्तु जलाञ्चले । रम्ये कुब्जे मञ्जुलस्तु दात्यूहे मङ्गलं पुनः ॥६६९॥ कल्याणे मङ्गलो भौमे मङ्गला श्वेतदुर्विकाः ।
महिला नार्या गुन्द्रायां मातुलो मदनद्रुमे ॥६७०॥ न्दीत्यलः (उ. ४६५)। भुजङ्गभेदे शुनि च पुसि । अन्यत्र त्रिलिङ्गः । अष्टस्वर्थेषु । बिम्बे यथा-परिवेषभीषणमिवार्कमण्डलम् । देशे यथा-देशानां दक्षिणोदेशेस्तत्र वैदर्भमण्डलम् । भुजङ्गमेदे सर्पभेदे यथा-मण्डलः शंखपालश्च । परिधौ परिवेषे यथा-मण्डलं धूमधूम्राभं रवेः स्यात् वृष्टिसुचकम् । शुनि यथा-उपेक्ष्य लोष्ट. क्षेप्तारं लोष्टं दशति मण्डलः । द्वादशराजके यथा-नाभावात्मानमायच्छेत् नेता प्रकृतिमण्डले ॥६६८॥ संघाते यथा-ततः पमित्युक्त्वा प्रतस्थे मुनिमण्डलम् । कुष्टभेदे यथा-वपुर्मण्डलदूषितम् । स्थानकवत्तुलकाङ्गेष्वपि मंखः । स्थानके यथा-स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् । वर्तुले यथा-उद्यन्नादं धन्विभिनिष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति । कर्माङ्ग यन्त्रादि उपलेपादि च । यन्त्रादौ यथा-तन्त्रावाप विदायोगैमण्डलान्यधितिष्ठता । उपलेपादौ यथाचतुरस्र मण्डलन्तु कार्य विप्रस्य भोजने । मञ्जुलं तु जलांचले । रम्ये कुब्जे । मजुमनोज्ञत्वमस्त्यस्य मंजुलम् । सिध्मादित्वाल्लः । मजेः सौत्रस्य । कुमुलतुमुले. त्युले वा (उ. ४८७) । रम्ये वाच्यलिङ्गः । जलाञ्चल:(लं) शेवालं तत्र पुंक्लीबः । रम्ये कुंजे च यथा-कोकिला मंजुलालापैमंजुले(लं) मंजु गुंजति । मजुलस्तु दात्यूहे । दात्यूहो जलरंकुः । मङ्गलं पुनः । कल्याणे । मङ्गति मङ्गलम् । मृदिकन्दी (उ. ४६५ ) त्यलः । पुंक्लीबः । यथा- आविर्भवन्तु परमाणि च मङ्गलानि ॥ ६६९ ॥ मङ्गलो भौमे । यथा-वृष्टिश्चलति मङ्गले । मङ्गला श्वेतदुर्विका । श्वेतवर्णा दुर्वा श्वेतदूर्विका । महिला ना- गुन्द्रायाम् । महते महिला । कल्यनोमहीति (उ. ४८१ ) इलः । नार्या यथा-मिलन्मानप्रन्थिमहिलमहिला मोहनकला विलासं गाहन्ते रजनिमुखमित्राणि मरुतः । गुन्द्रा मुस्त्राभेदः । मातुलो मदनद्रुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः