SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः (२७५) फेनिलं मदनफले बदरे फेनवत्यपि । बहुलं भूरिवियतोबहुलः पावके शितौ ॥६६६॥ कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः । बहुलास्तु कृत्तिकासु बिडालो वृषदंशके ॥६६७॥ पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदेशयोः । भुजङ्गभेदे परिषौ शुनि द्वादशराजके ॥६६८॥ यथा-पादानते प्रणयपेशलवाचिकान्ते त्यक्तस्तया मदति कोपनया न मन्युः । फेनिलोऽरिष्टपादपे । फेनोऽस्त्यत्र फेनिलः । प्रज्ञापर्णोदकफेनाल्लेली ७।२।२२। यथा- चीनांशुकैः फेनिलफेनशुभैः ॥६६५॥ फेनिलं मदनफले बदरे फेनवत्यपि । मदनस्य वृक्षस्य फलं मदनफलम् । बदरं कुवलम् । फेनवति वाच्यलिङ्गः । तत्र यथा-वैदेहि पश्यामलयाद्विभिन्न मत्सेतुना फेनिलमम्बुराशिम् । बहुलं भूरि वियतोः । बंहते बहुलम् । स्थावंकिवंहीति (उ. ४८६) उलो नलोपश्च । बहून् अर्थान् लाति वा । भूरि प्रभृतम् । तत्र वाच्यलिङ्गः । यथा- क्लेशाकुलं बहुलदोषमिदं शरीरम् । वियति ब्योम्नि यथा-बहुलं जलदाकीर्णम् । बहुलः पावके शितौ । कृष्णपक्षे । पावकेऽग्नौ यथा-सन्मन्त्रेन्धनसुप्रदीप्रबहुलज्ज्वालावलीवेल्लितः । शितौ कृष्णे वर्णे पुंसि । तद्वति वाच्यलिङ्गः यथा-बहुलकुन्तलवल्लिविभूषिता ॥६६६॥कृष्णपक्षे यथा-बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति । बहुला तु सुरभ्यां नीलिकैलयोः। सुरभिगौः । तत्र यथा-बहुला बहुला भरतैः सेव्यते पुण्यकर्मभिः पुम्भिः । नीलिका एला च औषधी । बहुलास्तु कृत्तिकासु । स्त्रियां भूम्नि । यथा-बाहुलेयविजये भृगूद्वहः । अत्र बहुलानामपत्यं बाहुलेयः कार्तिकेयः । बिडालो वृषदंशके। पक्षिभेदेऽक्षिगोले च । विइ आक्रोशे । विड्यते विडालः । कुलिपिलीति (उ. ४१०) कित् आलः । विलं दारयति वा । पृषोदरादित्वात् ।३।२।१५५। वृषभदंशके यथा-बिभ्युबिलाडेक्षणभीषणाभ्यो वैडर्यकुडयेषु शशिधुतिभ्यः ॥६६७॥ मण्डलो बिम्बदेशयोः । भुजङ्ग(ग)भेदे परिधौ शुनि द्वा. दशराजके । संघाते कुष्टभेदे च । मण्डयति मंड्यते वा मण्डलः । मृदिक
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy