________________
(२७४) अनेकाथसंग्रहः सटीकः :: द्वितीयो विभागः
पिंजलं स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः । विज्जले पिच्छिला पोतकिकायां सरिदन्तरे ॥६६३॥ शाल्मलौ शिंशपायां च पिण्डिलो गणनापटौ । स्थूलजथे पुष्कलस्तु पूर्णे श्रेष्ठेऽथ पुद्गलः ॥६६४॥ काये रूपादिमद्रव्ये सुन्दराकार आत्मनि ।
पेशलः कुशले रम्ये फेनिलोऽरिष्टपादपे ॥६६५॥ वेतसः । तोयवायसो जलकाकः॥६६२॥ पिंजलं स्यात्कुशपत्र हरिद्राभे । पिंजरस्य लत्वे पिंजलम् । कुशपत्रं दर्भदलम् । हरिद्राभे गुणे पुंसि । तद्वति वाच्यलिङ्गः । तत्र यथा-कुर्वाणमुत्पिजलजातपत्रविहङ्गमानां जलजातपत्रैः । अथ पिच्छिलः । विज्जले (निजले)। पिच्छाऽस्त्यस्य पिच्छिलः । लोमपिच्छादेः शेलम् वालिङ्गः । यथा-स्रोन्तोन्तरग्रावसु पिच्छिलेषु मत्स्यभ्रमाद् भ्राम्यति बालवर्गः । पिच्छिला पोतकिकायां सरिदन्तरे । शाल्मली शिंशपायां च । पोतकी दुर्गा । सरिदन्तरं नदोभेदः ।।६६३॥ शाल्मलिशिंशपे वृक्षौ । पिंडिलो गणनापटौ । स्थूलजले । पिंडुड संघाते । पिंड्यते पिंडिलः । कल्यनिमहोतील: (उ. ४८१) । प्रवृद्धा पिंडिरस्त्यस्य वा । स्वाङ्गाद्विवृद्धात्ते इतीलः । वायलिङ्गः । पुष्कलस्तु पूर्णे श्रेष्ठे । पुष्यति पुष्णाति वा पुष्कलः । बलिपुषेः कलक् । वाच्यलिङ्गः । द्वयोयथा- गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथ पुद्गलः । काये रूपादिमद्रव्ये सुन्दराकार आत्मनि । पूयते पुनाति वा पुद्गलः । मुरलोरलेति (उ. ४७४) साधुः । पूरणगलनधर्मा वा । पृषोदरादित्वात् साधुः । चतुष्वर्थेषु ॥६६४॥ कायः शरीरम् । रूपादिमद्र्व्यं परमाणुलक्षणम् । यदाह- पूरणगलनधर्माणः स्पर्शरसगन्धवर्णवन्तः पुद्गलाः । सुन्दराकारो रम्याकृतिः । आत्मा चेतनः । पेशलः कुशले रम्ये । पिंशति पेशलः । मृदिकन्दीत्यलः (उ. ४६५) । वाच्यलिङ्गः । कुशले यथा- परिचरणपेशलत्वं यस्य समग्रेषु कार्येषु । रम्ये यथा-तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनोलैः । मृदौ स्निग्धे चापि मंखः । मृदो यथा-अङ्गे शिरीषकुसुमादपि पेशलेऽस्मिन् । स्निग्धे