________________
तृतीयः काण्डः .
(२७३) कपौ मुनौ निधेर्भेदे पिङ्गला कुमुदस्त्रियाम् । कारायिकायां वेश्यायां नाडीभेदेऽथ पित्तलम् ॥६६१॥ पित्तवत्यारकूटे च पित्तला तोयपिप्पली ।
पिचुलो निचुले तोयवायसे झावुकदुमे ॥६६२॥ तत्र यथा-कुष्ट मुत्पलपत्राणि पिप्पल्यो रक्तचन्दनम् । पिङ्गलः कपिले वह्नौ रुद्रेऽर्कपारिपाश्विके । कपौ मुनौ निधे/दे । पिङ्गो वर्णोऽस्त्यस्य पिङ्गलः । सिध्मादित्वात् लः ।७।२।२१। पिंजयति वा । मुरलो रलेति (उ. ४७५) साधुः । कपिले गुणे पुंसि । तद्वति वाच्यलिङ्गः । तत्र यथाउपेक्षते (याते) यः श्लथबन्धिनोर्जटाः (तेर्जटाः) कपोलदेशे कलमानपिङ्गलाः । वह्नौ रुद्रे च यथा-स पिङ्गलः पिङ्गलनेत्रजन्मा । अर्कपारिपाश्चिके यथा-माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्शिकाः ॥६६०। कपो यथा-गले (गलो) पिङ्गलवत्तेन बलाद् बद्धा मही भुजः । मुनो यथा-पिङ्गलादिभिराचार्यदुक्तं लौकिकं द्विधा । निधेर्भेदे यथा-नैसर्पः पाण्डुकश्चाथ पिङ्गलः सर्वरत्नकः । महापद्मः कालमहाकालौ माणवशंख कौ ॥ पिङ्गला कुमुदस्त्रियाम् । कारायिकायां वेश्यायां नाडीभेदे । कुमुदो दिग्गजः । तस्य स्त्री। करायिका पक्षिणीभेदः । तत्र यथा-दक्षिणे न बहुशोऽथ पृष्ठतः पिङ्गला किलकिलायिता शुभा । वेश्यायां यथा-पिङ्गला कररः सर्पाः सारंगा(भ्रमरा)न्वेषणं वने । इषुकारः कुमारो च षडेते गुरवो मम ॥ नाडीभेदे यथाइडा च पिङ्गला चैव सुषुम्णा चेति नाडिका । अथ पित्तलम् । पित्तवत्यारकूटे च । पित्तमस्यास्ति पित्तलम् । सिध्मादित्वाल्लः ७।२।२१ पित्तं लाति वा ॥६६१॥ पित्तवति वाच्यलिङ्गः । आरकूटे स्त्रीक्लीबः । पित्तवति यथापित्तले मधुरं पथ्यम् । आरकूटे यथा-पित्तलस्य पलान्यष्टौ । पित्तला तोयपिप्पली । तोयपिप्पली लागली । पिचुलो निचुले तोयवायसे झावुकद्रुमे । पच्यते पिचुलः । कुमुलतुमुले (उ. ४८७) ति साधुः। पिचुं लाति वा । निचुलो