________________
तृतीयः काण्डः
पिटके परिचारे च पञ्चाला निवृदन्तरे । पाञ्चाली पुत्रिकागोत्योः पललं पंकमांसयोः ||६५५॥ तिलचूर्णे पललस्तु राक्षसे पाचलोऽनले । afra Tarद्रव्ये पालो द्विरदज्वरे ॥ ६५६ ॥ पाकलं कुष्ठभैषज्ये पातालं वाडवानले । रसातले पाटलं तु कुसुमश्वेतरक्तयोः ||६५७ ॥
(२७१)
क्लीबे । पिटकेsपि स्त्रोक्लोन इति खः । तिलके यथा-सा हाटकाङ्कपटलं प्रकटीचकार । नेत्ररोगे यथा- आत्मसममेव मन्दाः पटुमपि पश्यन्ति नयनयो: पश्य । परिनीलपटलभाजो हरितरुचिर्भाति हरिदश्वः || छदिषि गृहाच्छादने यथापटलाधारकुड्येषु । संचये यथा - मंक्षूदपाति परितः पटलैरलीनाम् ॥६५४ ॥ पिटकं पुष्पादिभाण्डम् । तत्र यथा - कुसुमपटलपाणिः पाटलामुच्चिनोति । परिवारः परिच्छदः । अध्याये अवान्तरप्रकरण समाप्तावपि मखः । तत्र तु पुंसि । यथा - प्रथमः पटलः । पञ्चाला नीवृदन्तरे | पंच्यन्ते पञ्चालाः । ऋकृमृवृ इत्यालः (उ. ४७५ ) । पुंभुम्नि । यथा - पाश्चालेषु न वाचालाः ( दरिणीदृशः ) प्रायेण हरिणीदृशाम् । पाञ्चाली पुत्रिकागीत्योः । पुत्रिका पाषाणादिनिर्मिता । तत्र यथा- पांचालय: कलयन्ति लोलवलयैराश्चर्यमेणीदृशाम् । गोतिगतिमेदः । पललं पंकमांसयोः । तिलचूर्णे । पळति पललम् । दिकन्दी (उ. ४६५ ) त्यलः । पङ्के यथा -कैः शक्यते वा पलले पलायितुम् । मांसे यथा-निःशङ्कं मदिरां पिबन्ति पललं स्वादन्ति ।। ६५५|| तिलचूर्णे यथाकृसरां पल्लैः कीर्णाम् । पललस्तु राक्षसे । राक्षसो राक्षसविशेषः । पाचलोsनले । अनिले राधनद्रव्ये । पाचयति पाचलः । मुरलोरलेति साधुः (उ. ४७४) । राधनद्रव्य मिन्धनम् । पाकलो द्विरदज्वरे । पच्यतेऽनेन पाकलः । मुरलो रति साधुः (उ. ४७४ ) । यथा - कलभं कठोर इंव कूटपाकलः ॥ ६५६ ॥ पाकलं कुष्ठभैषज्ये । कुष्टभैषज्यं गन्धद्रव्यम् । रोगभेद इति खः । यथाचर्चिकापाकलं पामा कण्डूश्च पिटका तथा । पातालं वाडवानले । रसातले ।
1