________________
(२७०) अनेकार्थसंप्रहः सटीकः : द्वितीयो विभागः
निस्तलन्तु बले वृत्त निर्मलं विमलेऽभ्रके । निर्माल्ये च निष्कलस्तु नष्टवीजे कलोज्झिते ॥६५२॥ नेपाली मनःशिला स्यात् सुवहा नवमाल्यपि । प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे ॥६५३॥ प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च ।
पटलः तिलके नेत्ररोगे च्छदिषि संचये ॥६५४॥ निस्तलं तु बले वृत्त । निर्गतं तलमस्मात् निस्तलम् । बलं सैन्यम् । वृत्ते वर्तुळे वाच्यलिङ्गः । तत्र यथा-दण्ठस्य तस्यास्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । निर्मलं विमलेऽभ्रके । निर्माल्ये च । निर्गतो मलोऽस्मात् निर्मलम् । विमले वाच्यलिङ्गः । तत्र यथा-सम्भृतोपकरणेन निर्मलां कर्तुमिष्टमभिवांछता मया । अभ्रके यथा-निर्मलेन धवलं कृतं गृहम् । निर्माल्यमुपभुक्तपुष्पादि । निष्कलस्तु नष्टवीजे कलोज्झिते । निर्गतं कलं रतोऽस्य निर्गता कलाऽस्य वा । निष्कलः वाच्यलिङ्गः । द्वयोर्यथा-निष्कलः पुरुषोऽधमः ॥६५२॥ नेपाली मनःशिला स्यात् सुवहा नवमाल्यपि ॥ नेपाल देशभवत्वात् नेपाली । मनःशिला कुनटी । सुवहारास्ना नवमाला पुष्पलता । प्रबालो विद्रुमे वीणादण्डे अभिनवपल्लवे । प्रवलति प्रवालः । ज्वालादित्वाण्णः । प्रकृष्टं बलमस्य वा । पुंकलीचः । विद्रुमे यथा-पुरः प्रवालैरिव परिताद्धया । वीणादण्डे यथा-विलानमध्यां (तनुमध्या) कुटिलप्रवालां तन्वी कलालापमनोहरां सः । अले निरातङ्कमनो निवाय रेमे विपंचीमिव चाटुकारः ।। अभिनवपल्लवे यथा-पुष्पं प्रवालोऽपि(प)हितं यदि स्यात् मुक्ताफलं स्फुटविद्रुमस्थम् ॥६५३।। प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च । प्रगतस्तलम् अधोभागं प्रकृष्टस्तलश्चपेटो (पटो) वा प्रतलः । पातालभेदः पातालभुवनान्तरम् । तताङ्गुलिकरे यथा-प्रतळताडितगण्डतलः खलः । पटलं तिलके नेत्ररोगे च्छदिपि संचये। पिटके परिवारे च । पटति पटलम् । मृदिकन्दीत्यलः। पटं लाति वा । नेत्ररोगे च्छदिषि च त्रिलिङ्गः। संचये स्त्रीक्लीबः । अन्यत्र