________________
तृतीयः काण्डः
(२६९) तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि । क्षौमवस्त्रेऽथ धवलो महोले सुन्दरे सिते ॥६४९॥ धवली गौनकुलस्तु पाण्डवप्राणिभेदयोः । नकुली कुक्कुटीमांस्यो भीलं तूत्तमस्त्रियाः ॥६५०॥ वंक्षणे नाभिगर्भाण्डे नाकुली चव्यरास्नयोः ।
कुक्कुटीकन्दे निचुलस्त्विज्जलद्रौ निचोळके ॥६५१॥ ततिलो गण्डकपशौ । गण्डक एकशृङ्गः पशुः : दुकूलं सूक्ष्मवाससि । क्षौमवस्त्र । दुनोति दुकूलम् । दुकूलकुकूलेति (उ, ४९१) माधुः । द्वयोर्यथातदवितथभवादोर्यन्ममत्त्वं प्रियेति प्रियजनपरिभुक्तं यदुकूलं दधानः । अथ धवलो महोक्षे सुन्दरे सिते । धुनोति धवलः । मृदिकन्दीत्यलः (उ. ४६५)। सिते गुणे पुंसि । तद्वति सुन्दरे च वाच्यलिङ्गः । महोक्षे यथाधुनानेन स्कन्धं धवल किमु मुक्तः पथिभरः । सुन्दरे यथा-धवलकुचसमेतं यौवन वा वनं वा । सिते यथा-तत्र हंस धवलोत्तरच्छदं जाह्नवी पुलिनचारु दर्शनम् ॥६४९॥ धवली गौः । गौरादित्वाड्डीः । धवलेति गौरः । नकुलस्तु पाण्डवे प्राणिभेदयोः । नास्ति. कुलमस्य न कोलति वा नकुलः । नरवादित्वात् । नमोऽदभावः । द्वयोर्यथा-पाण्डवसैन्यमिव सनकुलम् । नकुली कुक्कुटीमांस्योः । कुकुटा ताम्रचूडी । मांसी गन्धद्रव्यम् । नाभील तूत्तमस्त्रियाः। वंक्षणे नाभिगर्भाण्डे । नाभी लाति नाभीलम् । वंक्षण ऊरुसन्धिः ॥६५०।। नाभिगर्भाण्डं नाभिमध्ये अण्डकाकारकोशः । उत्तमस्त्रियाः इति द्वाभ्यामपि सम्बध्यते । द्वयोर्यथा-नाभील मूलं स्पृशतः स्वभर्तर्नाभ्येति भीत्याभिमुखं नवोढा । नाकुली चव्यरास्नयोः। कुकुटी कन्दे । नकुलस्येयं नाकुली। नाकुलीनां कुल इति । नखादित्वात् साधुः । चव्यरास्ने ओषधिभेदो । कुक्कुटोकन्दो रसोनभेदः । निचुलस्त्विज्जलद्रौ निचोलके । नेनक्ति निज्यते वा निचुलः । कुमुलतुमुलेति साधुः । इज्जलद्रौ जलवेत सविशेषे यथा-स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खम् । निचोलकः कूर्पासस्तत्र यथा-निचुलमुकुलितांगो रङ्गगर्भ नताङ्गो ॥६५१॥