________________
(२६८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
तमालो वरुणे पुण्डेऽसौ तापिच्छेऽथ तण्डुलः । विडङ्गे धान्यसारे च ताम्बूलं क्रमुकीफले ॥६४७॥ ताम्बूली नागवल्ल्यां स्यात्तुमुलं रणसंकुले ।
तुमलो बिभीतकद्रौ तैतिलं करणान्तरे ॥६४८॥ यथा-हस्यते कुटिलस्वान्तैस्तरलैः सरलो जनः । तरला मद्यमुष्णिका ॥६४६॥ उष्णिका यवागूः । तत्र स्त्रीक्लीबः । तत्र यथा- सेविततरले मध्ये सततनितम्बाधिवासिनिकृशत्वम् । युक्तं तुंगपयोधरतटतलपीडासहब्रतिनि ।। ६४६ ॥ तमालो वरुणे पुण्ड्रेऽसौ तापिच्छे । ताम्यति तमालः । ऋकृमृ इत्यालः (उ. ४७५) । वारुणो वृक्षः । पुण्ड्रस्तिलकम् । तत्र यथा-भाले तमालः कुलबालिकानाम् । असिः खड्गः । तापिच्छे पुंक्लीवः । तत्र यथा-तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वृक्षः । अथ तण्डुलः । विडङ्गे धान्यसारे च । तडुड् ताडने । तंड्यते तण्डुलः । हृषीवृतित्युलः (उ.४८५) । विडङ्गमौषधम् । धान्यप्तारों निस्तुषो ब्रोह्यादिः। तत्र यथा-तुषैरपि विनिर्मुक्का न प्ररोहन्ति तण्डुलाः । ताम्बूलं क्रमुकी (क्रमुके) फले । ताम्यतेऽनेन ताम्बूलम् । तमेोन्तो दीर्घ स्तुचे त्यूलः (उ. ४८९)। ताम्बूलभृतगल्लोयं भल्लं जल्पति मानवः । पूगफलपर्णचूर्णसंयोगेऽपि । तत्र यथा-ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽपि ते दुर्लभाः ॥६४७ ॥ ताम्बूली नागवल्ल्यां स्यात् । यथा- ताम्बूलीनां दलैस्तत्र रचिता पानभूमयः । तुमुलं रणसंकुले । ताम्यतेऽनेन तुमुलम् । कुमुलतुमुलेति (उ. ४८७) साधुः । वाच्यलिङ्गः । यन्मखः-तुमुलं व्याकुले शब्दे त्रिषु स्यात्संकुले रणे । यथा- संग्रामस्तुमुलस्तस्य । तुमुलो विभीतकद्रौ । विभीतकद्रुः कलिद्रुमः । व्याकुलरवेऽपि । यथा-खगकुलं तुमुलं कुरुतेतराम् । तैतिल करणान्तरे । तिलति तितिलः । जजलतितिलति (उ. १८) साधुः । तस्येदं तैतिलम् । यथा-बवं च बालवं चैव कौलवं तैतिलं तथा ॥६४८॥