________________
तृतीयः काण्डः
(२६७) जम्बू द्रमेऽथ जम्बालं कईमे शैवलेऽपि च । जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भलः ॥६४४॥ जम्बीरे देवताभेदे जाङ्गलः स्यात्कपिंजले । जाङ्गली तु शूकशिम्ब्यां जाङ्गुलं जालिनीफले ॥६४५॥ जागुली विषविद्यायां तरलो भास्वरे चले ।
हारमध्यमणौ षिड्गे तरला मद्यमुष्णिका ॥६४६॥ कालाजटाघाटाक्षेपे इतीलः । वाच्यलिङ्गः। यथा- विवेश कश्चिजटिलस्तपोवनम् । जटिला तु मांसिकायाम् । मासिका गन्धद्रव्यम् । जम्बूल: क्रकचच्छदे । जम्बुद्रुमे । जायते जम्बूलः । दुकूल कुकूलेति (उ. ४९१) साधुः । क्रक चच्छदः केतकः ।।६४३॥ अथ जम्वालं कर्दमे शैवलेऽपि च । जायते जम्बालम् । चात्वा ठ कंकालेति (उ. ४८०) साधुः । पुंक्लोबः । द्वयोर्यथा-- जम्बालजालजटिलासु सरित्तटीषु । जङ्गलो निजले देशे पिशितेऽपि । जायते जङ्गलः । ऋजनेन्तिश्चे (उ. ४६७) त्यलः । निर्जलदेशे वाच्यलिङ्गः । तत्र यथा-अनूपः पित्तजे शस्तो जङ्गलः श्लेष्मजे पुनः । पिशिते पुंक्लोबः । तत्र यथा-हरति विनयं वामो यस्य प्रकाशितसाहसः । प्रति(वि). गलदसृक्पंकः पाणिर्ललन्नरजंगलः । अथ जम्भलः। जम्बीरे देवताभेदे । जम्भं लाति जम्भलः । जम्बोरा वृक्षः ॥ ६४४ ॥ जांगलः स्यात्कपिंजले । जंगलदेशे भवो जाङ्गलः । कपिजलः पक्षिविशेषः । जाङ्गली तु शूकशिम्ब्याम् । शूकशिम्बी कपिकच्छूः । जागुलं जालिनीफले । जायते जाङ्गलम् । कुमुल. तुमलेति साधुः (उ. ४८७) । जालिनी लतामेदः तस्याः फले ॥ ६४५ ॥ जागुली विषविद्यायाम् । यथा-जाङ्गली नाम विद्याहमुत्तमा विषनाशिनी । तरलो भास्वरे चले। हारमध्यमणौ षिङ्गे । तरति तरलः। मृदिकन्दीत्यल (उ.४६५) । भास्वरे चले च वाच्यलिङ्गैः। भास्वरे यथा-सरलतरले आवां तावद बहुश्रुतशालिनौ । चले यथा-तरलतरतरङ्गै रङ्गित गाङ्गमम्भः । हारमध्यमणौ यथा-नायं हारस्य मध्ये तरलमरकतो नाभिदेशे कृशांग्याः । षिड्गो विटः । तत्र