________________
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः क्षणिके चिकुरे शीघे पारते प्रस्तरान्तरे । मीने च चपला तु स्यात्पिप्पल्यां विधुति श्रियाम् ॥६४०॥ पुंश्चल्यामथ चत्वालो यज्ञकुण्डकगर्भयोः।। चूडालश्चूडया युक्ते चूडालाऽपि च चक्रला ॥६४१॥ छगलश्छागे छगली वृद्धदारकभेषजे । छगलं तु नीलवस्त्रे जगलो मदनद्रुमे ॥६४२॥ मेदके कितवे पिष्टमधेऽथ जटिलो जटी । जटिला तु मांसिकायां जम्बूलः क्रकचच्छदे ॥६४३॥
च यथा- अलमतिचपलत्वात् स्वप्नमायोपमत्वात् ।।६२९॥ चिकुर इषन्निमीलिताक्षः । शोवस्त्वरितः । पारते यथा- चपलपलशतानां बन्धकः सैष योगः । प्रस्तरान्तरं पाषाणविशेषः । मानो मत्स्यः । चपला तु स्यापिप्पल्या विद्युति श्रियाम् । पुंश्चल्याम् । पिप्पली कणा । शेषेषु यथा- चित्रं किमत्र यज्जातं चपलानां पलायनम् ॥६४०॥ अथ चत्वालो यज्ञकुण्डकगर्भयोः । चत्यते चत्वालः । चत्वालकंकालेति (उ. ४८०) साधुः । यज्ञकुण्डकं यज्ञगतः । गर्भो मध्यम् । चूडालश्चूडया युक्ते। चूडो विद्यतेऽस्य चूडालः । प्राण्यङ्गादातोलः । यथा-चूडालैः शिशुभिर्विलोडितमिदं क्रोडं पितुः सर्वतः । चूडालाऽपि च चक्रला ॥६४१॥ चक्रला क्षुद्रजन्तुमेदः । छगलश्छागे । छ्यति छगलः । छोडग्गादित्यलः (उ. ४७१) । यथा- बध्नाति छगलं गछे । छगली वृद्धदारकभेषजे । गौरादित्त्वाड्डीः । छगलं तु नीलवस्त्रे । यथा'छालच्छन्नगात्रोऽयं रात्रौ केनेह लक्ष्यते । जगलो मदन(कनक) मे । मेदके कितवे पिष्टमये। जायते जगलः । मुरलोरलेति (उ. ४७४) साधुः । मेदको मद्यपंकः । कितवो धूर्तः। तत्र वाच्यलिङ्गः ॥६४२॥ मेदके कितवे पिष्टमधे च । यथा- अस्पृश्यं जगलं जगुः। मेचकेऽपि मंखः। यथा- अजगरजगलास्तरुवनगहनाः । अथ जटिलो जटी। जटाः सन्त्यस्य जटिलः ।