________________
तृतीयः काण्डः मुसले लाङ्गले चापि गोपालो गोपभूपयोः । स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ चन्द्रिलः ॥६३८॥ नापिते वास्तुके रुद्रे चंचलोऽनिलकामिनोः ।।
चञ्चला तु तडिल्लक्ष्म्योश्चपलश्चोरके चले ॥६३९॥ (उ.४६५) बहुवचनादलः । पन्नगविषे पुंछीबः । तत्र यथा-व्याल: सैष पुरो निगोर्णगरलज्वालाकरालाननः । तृणप्लकस्तृणमुष्टिः । मानोऽहंकारः । विषमात्रेऽपि । गन्धोलो वरटा शुण्ठ्योर्भद्रायाम् । गन्धयते अदयति गन्धोली । पिछोलककोलेति साधुः (उ.४९५)। वरटातैलाधारव्याक्षुद्रजन्तुः । शुंठी ओषधिः । भद्रा करणविशेषः । अथ गोकिलः । मुसले लाङ्गले चापि । गोभिः किलति क्रीडति गोकिलः ।।६३७॥ मुसलम् अयोग्रम् । लाङ्गलं हलम् । गोपालो गोपभूपयोः (नृपगोपयोः)। गां सौरमेयी पृथ्वों वा पालयति गोपालः । द्वयोर्यथा-नद्यास्तीरे विदर्भायाः कापि गोपालबालिकाः। गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरम् ॥ स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णे । गोरो वर्णोऽस्य गौरिलः । पिच्छादित्वादिलः (उ.४९५) । सिद्धार्थः श्वेतसर्षपः । लोहचूर्ण लोहक्षोदः । अथ चन्द्रिलः (चण्डिलः)। नापिते वास्तु के रुद्रे । चन्दति चन्द्रिलः । स्थण्डिलकपिलेति (उ.४८४) साधुः ॥६३८ ॥ नापितो दिवाकीर्तिः । वास्तुकं शाकभेदः (क्षीरपत्रम् ) । रुद्रः शम्भुः । चंचलोऽनिलकामिनोः । भृशं चलति चंचलः । यडन्तादच् । द्वयोर्यथा-वेपते चंचलेनात्तं कान्ताया वसनाऽश्चलम् । चपलेऽपि यथा-चंचलढगञ्चलविभ्रमेण । कामिचपलयोर्वाच्यलिङ्गः । चञ्चला तु तडिल्लक्ष्म्योः । द्वयोर्यथा-स्थास्नवः कुत्र चंचलाः । चपळश्चोरके चले । क्षणिके चिकुरे शीघ्र पारते (पारदे) प्रस्तरान्तरे । मीने च। चप् सांत्वने । चप्यते चपलः । मृदिकन्दी (उ. ४६५)त्यलः । चले क्षणिके चिकुरे शीघे च वाच्यलिङ्गः । चोरकं गन्धद्रव्यभेदः । चले क्षणिके