________________
(२६४) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः
कुचेला त्वविद्धकण्या केवलं त्वेककृत्स्नयोः । निर्णीते कुहने ज्ञाने केवली ग्रन्यभिधपि ॥६३५॥ कोमलं मृदुले तोये कोहलो मुनिमद्ययोः । ग्रन्थिलो ग्रन्थिसहिते विकंकतकरीरयोः ॥६३६।। गरलं पन्नगविषे तृणपूलकमानयोः ।
गन्धोली वरटाशुण्ठ्योभद्रायामथ गोकिलः ॥६३७॥ पूज्यन्ते वृहस्पतिसमाऽपि ॥६३४॥ कुचेला त्वविद्धकाम् । कुत्सितं चेलति कुचेला न विद्धौ कर्णी यस्या अविद्धकर्णी । केवलं त्वेककृत्स्नयोः । निर्णीते कुहने ज्ञाने। केवृड् सेचने । केवते केवलम् । मृदिकन्दोत्यला (उ.४६५) ज्ञाननिर्णोतयोः क्लीबे । अन्यत्र वाध्यलिङ्गः । एकोऽसहायः । तत्र यथा-केवलोऽपि स्फुरन्बाणः करोति विमदान् कवीन् । कृत्स्ने यथा-उन्निद्रयेण नयत्यनन्यचरिता रात्रिं बलात्केवलाम् । निर्णोते यथा-कृपणस्य कुपाणस्यच केवलमाकारतो भेदः । कुहन ईर्ष्यालुः । ज्ञानं सर्वथावरणविलये चेतनस्य स्वरूगविर्भावलक्षणम् । तत्र यथा-केवलालोकभाखते । निर्णीते केवलमित्यव्ययमपि । केवलो ग्रन्थभिद्यपि । प्रन्थभित् ज्योतिः शास्त्र विशेषः। तत्र स्त्रियाम् । केवलमामकेति (२-४-२९) डोः । यथा-दुर्ज्ञानाकेव लोकलौ ॥६३५॥ कोमलं मृदुले तोये । काम्यते कोमलम् । मुरलोरलेति साधुः । (उ.४७४) मृदुलेवाच्यलिङ्गः तत्र यथा-कोपाकोमललोल बाहुलतिकापाशेन बद्धा दृढम् । तोये यथा-केवलं । कोमलाहारो जातस्तस्यास्तरोरिव। स्निग्धतुल्यवृत्तिष्वपि मंखः । स्निग्धतुल्ययोर्यथा-कमलकोमलपाणितलाततः । वृत्तो तु स्त्रियाम् तत्र यथा-शोषैर्वर्णैर्यथायोगं कथिता कोमलाख्यया । कोहलो मुनिमधयोः। कूहयते कोहलः। मृदिकन्दी (उ. ४६५) त्यलः। बाहुलकाद् गुणः । मुनिर्भरतमुनितनयः । मद्य शीधु । ग्रन्थिलो अन्थिसहिते विकंकतकरीरयोः। ग्रन्थयः सन्त्यस्य ग्रन्थिलः । सिन्मादित्वात् लः। प्रन्थिं लाति वा प्रन्थिसहिते वाच्यलिङ्गः । तत्र यथाग्रन्थिला शिथिला वेणी मैथिल्या जप्रथे (जगृहे ) कथम् । विकंकतकरीरौ वृक्षौ ॥६३६॥ गरलं पन्नगविषे तृणपूलकमानयोः । गीर्यते गरलम् । मृदिकन्दीति