________________
काशनाद्रौ गुहूच्यां च कुन्तको हलकेशयोः । कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले ॥६३३॥ शंकुसंयुक्तगर्ने च कुलालो घूकपक्षिणि ।।
कुक्कुभे कुम्भकारे च कुचेलः स्यात्कुवाससि ॥६३४॥ यथा-कुण्डपतितः शंडः। ताडके यथा-प्रोल्लसत्कुण्डलप्रोतपद्मरागदलविषा ।। कुण्डली पुनः । काञ्चनाद्रौ गुडूच्यां च। स्त्रियां गौरादित्त्वाड्डीः ॥६३२॥ कुन्तलो इल(यव) केशयोः। कुन्तं लाति कुन्तलः । कनति दीप्यते वा । मुरलोरलेति (उ.४७४) साघुः । हल लागलम् । केशे यथा-एषा कुंचितकुन्तलाकुलवधूःलासु लीलायते । कुन्तलाः स्युर्जनपदे। पुं भुम्नि । यथाअविकलहसितत्वात्क्षालितानीव कान्त्या। मुकुलितनयनत्वाद् व्यक्तकर्णोत्पलानि । त्वयि विनिहितभारः कुन्तलानामधीशः पिबतिमधुसुगन्धीन्याननानि प्रियाणाम् ॥ तद्देशजे तृपचारात् । तत्र तु वाध्यलिङ्गसंख्यः यथा-वक्त्रे नागरखण्डमस्तु पुरतः प्रेमाकुलाकुन्तली। मधुपात्रेऽपि मंखः । तत्र तु क्लीबे । यथा-कुन्तलेषु कलितं ललिताङ्ग्यः कापि शायनमनन्यमनस्काः। वल्लभैः समरसा सह पीतिप्रीतयेऽध्यवससुः सु(स)विलासाः । कुकूलं तु तुषानले । शंकुसंयुक्तगर्ने च । कूयते कुक्लम् । दुकूलकुकूलेति (उ.४९१) साधुः। कुं पृथ्वी कूलति आवृणोति वा । तुषानले पुंक्लीवः । तत्र यथा-वायुः कुकूलमिव वर्षति दक्षिणश्च कार्शा न वैरिवशरैर्मदनश्च हन्ति ॥६३३॥ शंकुसंयुक्तगर्ते यथा-वल्लभोक्तस्य पान्थस्य कुकूलमपि तूलिका । कुलालो घूकपक्षिणि । कुक्कुमे कुम्भकारे च । कोलति कुलालः। कुलिपुलीति ( उ.४१०) किदालः। कुलमलति वा कुमृदं लालयति वा । कुक्कुभो पक्षी। कुम्भकारे यथा-मृदमिव बलात्पिण्डोकृत्य प्रगल्भकुलालवत् । कुचेलः स्यात्क्रुवाससि। कुत्सितं चेलो वासोऽस्य कुचेलः। पाच्यलिङ्गः यथा- कुचेलः कर्कशः स्तब्धः स्वाधोनः स्वयमागतः पञ्च लोके न