________________
(२६२)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः मुक्ताफलोत्पलयोश्च कुम्भिलो अपचौरयोः । श्लोकच्छायाहरे श्याले कुद्दालो भूमिदारणे ॥६३१॥ युगपत्रेऽथ कुटिलं भगुरे कुटिला नदी ।
कुण्डलं वलये पाशे ताडके कुण्डली पुनः । ६३२॥ मंखः । तत्र अमृते नीरे च यथा- कीलाला ( समुद्र ) लयलोनतामुपगते तस्मिन् रवेमण्डलो। मण्डे यथा-मध्याह्ने प्रतिकेतनं भजति यः कीलालपानो. त्सवम् । कुशलं क्षेमपुण्ययोः । पर्याप्तौ । कुशच् । श्लेषणे तालव्यान्तः । कुश्यति कुशलम् । तृपिवपीत्यलः । क्षेमे यथा-अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः । पुण्ये यथा- कुशलैर्जायतेनणां मर्वशास्त्रेषु कौशलम् । पर्याप्तिः सामर्थ्यम् । तत्र यथा-महेलानामविकलं कुशलं मुसलग्रहे । कुशलोऽभिज्ञ । वाच्यलिङ्गः यथा-विस्तारयति कुशलाश्चित्रां वाचं पटोमिव । कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च । कूयते कुवलम् कोर्वेति किदलः । कुवल्याः विकारः फलमिति वा । हेमादित्वादड् । तस्य फलम् । इति लुप् । कौवलति वा । बदरीफले त्रिलिङ्गः ॥६३०॥ उत्पले पुंक्लीबः । त्रिष्वपि यथा-केवलं कुवलस्थूलैः सारोदित्यश्रुबिन्दुभिः । कुम्भिलोझपचौरयोः (मीनमूषयोः) श्लोकच्छायाहरे श्याले । स्कुम्नाति कुम्भिलः । स्थण्डिलकपिलेति साधुः । झषो मत्स्यः । श्लोकच्छोयाहरः कविचौरः । चतुर्वपि यथा-कुम्भिळस्तस्य वल्लभः । कुद्दालो भूमिदारणे। युगपत्रे । कुं पृथ्वी, कुत्सितं वा दालयति कुद्दालः । पृषोदरादित्त्वात साधुः । भूमिदारणे यथा-चखानवैरिणां कन्दं सकुहालैरिवासिभिः ॥६३१॥ युगपत्रः कोविदाराख्यो वृक्षः । अथ कुटिलं भङ्गरे । कुटति कुटिलम् ॥ कल्यनीतीलः । भङ्गुरं वक्रम् । तत्र वाच्यलिङ्गः । यथा- पूर्व (हरेः) स्मर्तुरवन्तु कोपकुटिलभंगुरदृष्टयः । कुटिला नदी। नदी नदोविशेषः कुण्डलं वलये पाशे ताडके । कुण्डते कुंडलम् । मृदिकन्दीत्यलः । ताडङ्क पुलकीवः । वलये यथा-यहोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिदाधिप । पाशे