________________
तृतीयः काण्डः
मरुदेशेऽवतंसे च काकोलो मौकुलौ विषे ।
कुलाळे काहलन्तु स्याद् भृशे चाव्यक्तवाचि च ॥ ६२८।। शुष्के च वाद्यभेदे च काहली तरुणस्त्रियाम् । कट्टास्तु लोहगूथे तानस्य कळशेऽपि च ॥ ६२९॥ कीलालं रुधिरे नीरे कुशलं क्षेमपुण्ययोः । पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले ॥६३० ॥
(२६१)
1
तत्र यथा - कदली तु बिळे शेते मृडुभक्ष्योच्च कर्बुरैः । नीलाम्रै रोमभिर्युक्ता सा विंशत्यंगुलायता || रम्भायां वैजयन्त्यां च यथा - तं सद्विपेन्द्र तुलिता तु तुंग शृङ्ग. मम्युल्लसत्कदलिका वनराजिरुच्चैः । विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मी दघत्प्रति गिरेरलघुर्वलौघः ॥ शाकादिनवनालेपि तत्र श्रीक्लीव: । कामल: कामिरोगयोः । मरुदेशेऽवतंसे च कामं लाति कामलः । कामयते वा । हृदि कन्दीत्यलः । ( उ. ४६५ ) कामिनि वाच्यलिङ्गः । कामिरोगयोर्यथाकामलेन हृतं चक्षुश्चित्रं तस्या मृगीदृशः । अवतंसः शेखरः || ६२७|| काकोलो मौकुलौ (मौष्कुलौ ) विषे । कुलाले । ईषत् कोलति वा काकोलः । अल्पे
३-२-१३६ । इति कादेशः । विषे पुंक्लोब: । मौकुलिर्द्रोणकाकः । तत्र विषेच यथा - एष पक्षी कटुरटन् व्यथां हृदि तनोति मे । काकोलोऽयं किमाश्चर्यं विश्वस्योद्वेगकारकः ॥ कुलाल: कुम्भकारकः । काहलं तु स्याद् भृशे चाव्यक्तवाचि ( सन्त्यन्तवाचि) च शुष्के च वाद्यभेदे च । कणति कण्यते वा कोहलम् । मुरलोर लेति (उ. ४७४) साधुः । भृशे क्रियाविशेषणम् । अव्यक्त वाचि ॥ ६२८|| शुष्के च वाच्यलिङ्गः । वाद्यभेदे स्त्रीक्लीबः । भृशे अव्यक्तवाचि वाद्य भेदे च यथा - तूर्यारावैराहि तो तालतालैर्गायन्तीभिः काहलं काहलाभिः । काहळी तरुण स्त्रियाम् । यथा - काहली बाहुली नेयं वल्लभस्य विराजते । किट्टालस्तु लोहगूथे ताम्रस्य कलशेऽपि च । किमलति - आलाति वा किट्टालः | लोहगुर्थ लोहमलः ||६२९|| कीळालं रुधिरे नीरे । कील्यते बध्यते कीलालम् । ऋ कृमृ 1 (उ. ४७५) इत्यालः । रुधिरे यथा - कीलाल कुल्या सुतरंति योधाः । अमृतमण्डयोरपि.