________________
. (२६०) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः
उपरागे मृगभेदे कलापे कंदलीद्रुमे । करालो रौद्रतुङ्गोरुधूणतैछेषु दन्तुरे ॥६२५॥ करालं तु कुठेरे स्यात्कम्बल: कृमिसास्नयोः । नागप्रभेदे प्रावारे वैकले कम्बलं जले ॥६२६॥ कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे ।
रम्भायां वैजयन्त्यां च कामलः कामिरोगयोः ॥६२७॥ उपप्लवः । मृगस्य मेदो विशेषःयदाह-कन्दली तु श्यामवी हस्ता यामा महोदरी। कलापः समूहः । कन्दली(कदली) द्रुमे । द्रुमो रम्भातरुः । करालो रौद्रतुङ्गोरु धूणतैलेषु दन्तुरे । करोति करालः । ऋकम इत्यालः । (४९५) धूणतैले पुंसि । शेषेषु वाच्यलिङ्गः । रौद्रे यथा-दंष्ट्राकरालमकरालिकरालिताभिः । तुझे यथा-करालताले द्रुमसोदराङ्गः । उरु पृथुलं तत्र यथा-नवेन्दुबिम्बं किरणैः करालम् । धूणतैलं तैलभेदः । दन्तुरे यथा-व्याघ्रव्यात्तकरालचक्रकुहरं जिघ्रत्यजनं मृगः । चण्डकाव्याप्तयोरपि मंखः । तत्र चण्डिकायां स्त्रियां, यथा-करालायतनाच्चायमुच्चरन् करणो ध्वनिः । व्याप्ते वाच्यलिङ्गः । तत्र यथा-नखकिरणलसत्केसरालीकरालः ॥६२५॥ करालं तु कुठेरे (कठोरः) स्यात् । कुठेरो अर्जकः । कम्बलः कृमिसास्नयोः । नागपभेदे प्रावारे वैकक्षे (क्ष्ये ) । काम्यते कम्बलः । शमिकमोति वलः । (उ. ४९९ ) सास्नायां प्रावारे च स्त्र पुंसः। कृमिः कृमिविशेषः । सास्नायां यथाकम्बलाप्रचलघण्टिको वृषः । नागप्रभेदे सर्पविशेषे यथा-कम्बलाश्वतरावुभौ । अत्र प्रावार ऊर्णमयं वासः । तत्र यथा-नव कम्बलसव्यानपीतशोतः सुतस्तव । वैकक्षमुत्तरासंगः । कम्बलं जले। यथा- लीलावापीषु खेलन्ति कम्बलै. रबलासखाः ॥६२६॥ कल्लोलोऽरौ हर्षवीच्योः । कल्पते कल्लोलः । पिछोलेकल्लोलेति ( उ० ४९५) ॥ साधुः । त्रिप्वपि यथा-उत्कल्लोलः क्षितिपतिरयं वीचिमालोव भाति । कदलो हरिणान्तरे। रम्भायां वैजयन्त्यां च । कदिः सौत्रः । कयते कदली। मुदिकंदीत्यलः । हरिणान्तरं मृगविशेषः ।