________________
हती काण्ड
(२५९) कुक्कुरे मुनिभेदे च कपिला शिंशपातरौ । पुण्डरीककरिण्यां च रेणुकागोविशेषयोः ॥६२३॥ कपालं कुष्ठरुग्भेदे घटादिशकले गणे ।
शिरोऽस्थनि कन्दलं तु नवाकुरे कळध्वनौ ॥६२४॥ शुल्वम् । कमलस्तु मृगान्तरे । यथा-सदृशे वनवृद्धानां कमलानां तवेक्षणे । कमला श्रीवरनार्योः । श्रियां यथा-साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधिः । वरनारी वराङ्गना । कपिलो वहिपिङ्गयोः। कुक्कुरे मुनिभेदे च । कवृड् , वर्णे, कव्यते कवते वा कपिलः । स्थण्डिलकपिठेति साधुः । (उ. ४८४) पिंगे वर्णे पुंसि । तद्वति वाच्यलिङ्गः । तत्र यथाघनकपिलजटांतभ्रान्तगङ्गाजलोघः ॥ ६२२ ।। कुक्कुरः श्वा । मुनिभेदे यथागुरोयियक्षोः कपिलेन रोषात् रसातलं संक्रमिते तुरङ्गे । कपिला शिंशपातरौ । पुण्डरोककरिण्यां च रेणुकागोविशेषयोः । पुण्डरीको दिग्गजस्तस्य करिणी । रेणुका जमदग्निपत्नी । गोविशेषे यथा-सहनं कपिलानां यः सद
र्णानां ददाति हि ॥६२३॥ कपालं कुष्ठरुग्भेदे घटादिशकले गणे । शिरोऽस्थनि । कपिः सौत्रः । कप्यते कपालम् । ऋकृमृवृ (उ० . ४७५) इत्यालः । कं पालयति वा । पुंक्लीबः । घटादिशकले यथा- कपाले मार्जारः पय इति करान् लेढि शशिनः । गणः समूहः । मृतस्य जीवतो वा शिरसोऽस्थि तत्र । मृतस्य शिरोऽस्थनि यथा-इत्थं खट्वाङ्गकोटो प्रकटितदशनं मंजुगुंजत्समीरं रागांधानामिवोच्चैरुपहसति महामोहजालं कपालम् । जीवतो यथा- विधिलिखिताक्षरभालं फलति कपालं न भूपालः । भिक्षु भाजनेऽपि तत्र च स्त्रीपुंक्लोबः । यथा- पुण्ये प्रामे वने वा महति सितपटछन्न (छिन्न) पाली कपालीम् । कन्दलं तु नवाङ्कुरे कलध्वनौ । उपरागे मृगभेदे कलापे ॥ कन्दते कन्दलम् । मृदिकन्दी (उ. ४६५) त्यलः । पंचस्वर्थेषु त्रिलिङ्गः । नवाङकरे यथा-ऊरुद्वयं कदलिकन्दलयोः सनामि । कलप्वनिर्मधुरशब्दः ॥२४॥ उपरागः