________________
(२५८) भनेकार्थसंग्रहः सटीक : द्वितीयो विभागः
इन्दीवरे मांसशून्येऽप्युज्ज्वबस्तु विकासिनि । शहारे विशदे दीप्तेऽप्युत्तालंस्त्वरिते कपौ ॥६२०॥ श्रेष्ठोत्कटकरालेषत्फुल्कः स्त्रीकरणान्तरे । विकस्वरोत्तालयोश्च कमलं क्लोम्निमेषजे ॥६२१॥ पङ्कजे सलिले ताम्र कमलस्तु मृगान्तरे ।
कमला श्रीवरनार्योः कपिलो वह्निपिङ्गयोः ॥६२२॥ पित्तनिवारणाय । उत्पलं कुष्टभूरुहे । इन्दीवरे मांसशून्येऽपि । उत्पलति उत्पलं उत्पीयते वा । मुरलोरलेति (उ. ४७४) साधुः । उद्गतं पलं मांसमत्र वा ॥६१९।। इन्दीवरे पुंक्लीवः । तत्र यथा- श्यामीचकार वनमाकुलदृष्टिपातैतेिरितोत्पलदलप्रकारैरिवाम्भः। उज्ज्वलस्तु विकासिनि । शंगारे विशदे दीप्तेऽपि । उज्ज्वलति उज्ज्वलः । शृङ्गारे पुंसि । अन्यत्र वाच्यलिङ्गः । विकासिनि यथा-उज्ज्वलैबकुलचम्पकपुष्पैः । शृङ्गारो रसः । यदाह-शृङ्गारः शुचिरुज्ज्वलः । तत्र यथादम्पत्योरुज्ज्वलो रसः । विशदे यथा- कुन्दोज्ज्वलं स्वद् यशः । दीप्ते यथाउज्ज्वलज्ज्वलनग्वालाकरालं गगनांगणम् । उत्तालस्त्वरिते कपौ । श्रेष्ठोत्कटकराठेषु । उत्तालयति उत्तालः । कपौ पुंसि । अन्यत्र वालिङ्गः । स्वरिते श्रेष्ठे च यथा- उत्तालतालरणितैः । कपो यथा- उत्तालस्तालपादपे ॥६२०॥ उत्कटे कराले च यथा-उत्ताला: कटपूतनप्रभृतयः सांराविणं कुर्वते । उत्फुल्लः स्त्रीकरणान्तरे। विकस्वरोत्तालयोश्च । उत्फुल्लति उत्फुल्लः उत्फलति स्म वा । अनुपसर्गेति (४-२-८०) साधुः । विकस्वरोत्तालयोर्वाध्यलिङ्गः । स्त्रीकरणान्तरं वात्स्यायनप्रसिद्धम् । विकस्वरे यथा-उत्फुल्लकिंशुकतरुप्रतिमो मनोभूः । उत्ताले उत्कटे यथा-उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मखैः सुखम् । कमलं क्लोम्नि भेषजे । पंकजे सलिले ताने। काम्यते कमलम् । मृदिकन्दीत्यलः (उ. ४६५) कं मलते कुत्सित मलति वा पङ्कजे पुंक्लोबः ॥ क्लोमहृदयस्य दक्षिणपार्वे उदर्योजलाधारः। मेषजम् ओषविशेषः ॥६२१॥ पङ्कनसलिलयोर्यथा-सकमलं कमलं कम क्षणा इदि दधाति मुधा विरहे तव । तानं