________________
. तृतीयः काण्डः
(२५७) अङ्गुलिः करशाखायां कर्णिकायां गजस्य च । आभीलं भीषणे कृच्छेऽपील्वलो मत्स्यदैत्ययोः ॥६१८॥* इल्वलास्तारकामेदेऽप्युपलो ग्रावरत्नयोः ।
उपला तु शर्करायामुत्पलं कुष्टभूरुहे ॥६१९॥ पुंसि । कुडवः प्रसृतिः। तत्र यथाः- अरण्यबीजांजलिदानलालितास्तथा च तस्यां हरिणा विशस्वसुः । करसम्पुटः प्रसृतपाणिद्वयपुटः । प्रणामाथे मुकुलितं हस्तयुग्मं वा । प्रसृतपाणिद्वयपुटे यथा- इति चापि विधाय दीयतां सलिलस्यांजलिरेक एव नौ। प्रणामार्थ मुकुलितहस्तयुग्मे यथा- शतमखमुपतस्थे प्रांजलिः पुष्पधन्वा ॥६१७।। अङ्गुलिः करशाखायां कर्णिकायां गजस्य च । अङ्गति मङ्गुरिः। मस्यसीत्युरिः (उ. ६९९) ऋफिडादित्वाल्लत्वे (२-३-१०४) अङ्गलिः । करशाखायां यथा- अथांगुलिभ्यां हरितालमाई मङ्गल्यमादाय मनःशिलां च । गजस्य कर्णिका शुण्डाग्रं तत्र यथा- शेते मुखान्तःस्थगितांगुलिगंजः । श्राभोलं भोषणे कृच्छेऽपि । आबिमेति अस्मात् आभीरम् । जम्बीराभोरेति (उ. ४२२) साधुः । लत्वे आभीलम् । धर्ममात्रे क्लोबे, तद्वति वाच्चलिंगः । कृच्छं दुःखम् द्वयोर्यथा- आभीलनीलवनकुंजरगर्जितेन । इल्वलो मत्स्यदैत्ययोः । एलयति इल्वलः। तुल्वले ल्वलादय (उ. ५००) इति साधुः । मत्स्यो मत्स्यविशेषः । दैत्यो योऽगस्त्येन जग्धः ॥६१८॥ तत्र यथा- वातापि भक्षितो येन इल्वलश्च महासुरः । इल्वलास्तारकाभेदेऽपि । स्त्रियां भुम्नि । यथा- इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृताः । उपलो ग्रावरत्नयोः । उप्यते उपलः तृपिवपोति किदलः (उ. ४६८) उपलाति वा पुंलीबः । प्रावणि यथा- येषामशेषभुवनाभरणस्य हेम्नस्तत्त्वं विवेक्तुमुपटाः परमं प्रमाणम् । रत्ने यथा- अकारि तस्य मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैदिशे नमः । उपला तु शकरायाम् । शर्करा पाषाणकणिका, इक्षुविकारो वा । तत्र पाषाण कणि कायां यथा- उपलावलितं वर्त्म सपदत्रे (उपानत्सहित)करोतु किम् ॥ इक्षुविकारे यथा - सितोपलालोडितमेतदेव चर्णाहितं .
* मु. अमला कमालयां स्यादमलं विशदेऽभ्रके । आभीलं ।