________________
(२५६)
अनेकार्थसंग्रहः सटीक : द्वितीयो विभागः सौवीरं कांजिकस्रोतांजनयोर्बदरीफले । स्यादर्गलं तु कल्लोले परिधेऽप्यनलोऽनिले ॥६१५॥ वसुदेवे वसौ वहावरालः समदद्विपे । वक्रे सर्जरसे चाप्यवेलस्तु स्यादपहवे ॥६१६॥ अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ।
अचला भुव्यजलिस्तु कुडवे करसम्पुटे ॥६१७॥ शीलरूपादिसेविनी प्रसाधनोपचारशा सैरन्ध्रीत्याह ॥६१४॥ सौवीरं कांजिकस्रोतांजनयोर्बदरीफले । सुवीराणामिदं सौवीरम् । कांजिके यथा- पुत्रं दयां पतिं दद्यां न तु सौवीरकं क्वचित् । स्रोतांजनं नयनप्रसाधनमौषधम् । देशेऽपि । तत्र 'भूम्नि । उपचारात्तज्ज्ञपुरुषेऽपि । अथ लान्ताः । स्यादर्गलं तु कल्लोले परिघे(दण्डोमिपारि)ऽपि । इयर्ति अर्गलम् । ऋजनेऽङ्गेतिश्चेत्यलः । त्रिलिङ्गः । परिघे यथा- द्वारार्गलाबद्धसुरेश्वरां का लङ्केति या रावणराजधानी । अनलोऽनिले । वसुदेवे वसौ वहौ । अनित्यनलः । मृदिकंदीत्यलः । (उ. ४६५) अनिलो वायुः ॥६१५।। वसुदेवो विष्णुपिता । वसुर्देवमेदः । यदाह-धरो ध्रुवश्च सोमश्च अहश्चैवानलोनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ वह्नौ यथा-यदि दहत्यनलोऽत्र किमद्भुतम् । अरालः समदद्विपे चक्रे सर्जरसे चापि। इयर्ति मरालः । ऋ कृ मृ (उ. ४७५) इत्यालः । वक्रे वाच्यलिङ्गः । समदद्विपे यथा- मरालः कंकालं कवलयति कराग्रेण समरे । वके यथा-करोति लक्ष्यं चिरमस्य चक्षुषो न वक्रमात्मीयमरालपक्ष्मणः । सर्जरसो रालः । अवेलस्तु स्यादपनवे (स्यादुपद्रवे) । नवेलत्यवेलः । अपह्नवो अपलापः ।।६१६॥ अवेला तु पूगचर्णे । पुगस्य पुगफलस्य चूर्ण पूगचूर्ण तत्र । अचलस्तु गिरिकीलयोः। न चलति अचलः । गिरौ यथा- अचल एष भवानिव राजते । कीलः शंकुः । अचला भुवि । यथा-गायन्ति तत्र यदि नाम भुजंगयोषाः शेषः शिरांसि धुनुयादचला चला स्यात् । अञ्जलिस्तु कुडवे करसम्पुटे । अनक्ति, भग्यते वा अञ्जलिः । पाषंजिभ्यामलिः ।