________________
-
वृतीयः परः । सावित्री देवताभेदे सिन्दूरं नामसम्भवे । सिन्दूरस्तु वृक्षभेदे सिदूरी रक्तचेलिका ॥६१२॥ रोचनी धातकी सुन्दयंगनायां दुमान्तरे । शुनारस्तु शुनीस्तन्ये सर्पान्ते चटकेऽपि च ॥६१३॥ सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववश स्त्रियाम् ।
वर्णसंकरसंभूतस्त्रीमहल्लिकयोरपि ॥६१४॥ दरसप्रसूतिः । शरीरलक्षणे यथा- सामुद्रलक्षणैः सर्वैःलक्षिताङ्गः क्षितीश्वरः । सावित्रस्तु महेश्वरे । सवितैव सावित्रः । अष्टमूर्त्तित्त्वात् । प्रज्ञादित्वात् स्वार्थेऽण् (७-२-१६५) ॥६११॥ सावित्री देवताभेदे। सविता देवता अस्याः सावित्री । यथा-पवित्रा वटसावित्री मृगनेत्राभिरय॑ते । सिन्दूरं नागसम्भवे । स्यन्दते सिन्दूरम् । सिन्दूरकति साधुः (उ. ४३०) यथा-सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणाः । सिन्दुरस्तु वृक्षभेदे । वृक्षमेदे पुल्लिङ्गः। सिन्दूरी रक्तचेलिका । रोचनी धातकी । रक्तचेलिका वस्त्र विशेषः । कर्णाटदेशप्रसिद्धः ॥६१२॥ रोचनी ओषधिः। धातकी वृक्षः । सुन्दर्यऽगनायां मान्तरे। सुन्दिः सौत्रः । सुन्दति सुन्दरो । ऋच्छि चटीत्यरः । (उ. ३९७) अङ्गनायां यथा-व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् । शुनारस्तु शुनीस्तन्ये सर्पाण्डे (न्ते) चटकेऽपि च । सुष्ठु न अर्यते सुनारः । घञि नस्वादित्वात्साधुः । सूयते वा । द्वारशंगारेति साधुः (उ. ४११) त्रिष्वपि यथा-सुनारो न स्तु (सु)नारिभिः क्रियते करगोचरः ॥६१३॥ सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् । वर्णसंकरसम्भूतस्त्रीमहल्लिकयोरपि । स्वैरं ध्रायति सैरन्ध्री । क्वचिदिति (५.१.१७१) डे । पृषोदरादित्वात्साधुः । परवेश्मस्थशिल्पकृत् स्ववशस्त्रियामिति, या परवेश्मस्था शिल्प कलाकौशलं करोति । स्ववशा स्वायत्ता च ननु एकायत्तस्त्रो तस्यामित्येकोऽर्थः । वर्णसंकरसम्भूतस्नोति द्वितीयोऽर्थः । महल्लिका सौविदल्लेति तृतीयोऽर्थः ॥ त्रिष्वपि यथासरन्ध्या निजशिल्पकल्पनविर्षि दधनिशीथे ध्रुवम् । कास्यस्तु चतुःषष्टिकलाभिज्ञा