________________
(२५४)
अनेकार्थसंग्रहः । सटीक द्वितीयो विभागः सारोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः। संगरं तु फळे शम्याः सम्भारः सम्भृतौ गणे ॥६०९॥ संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि । गुणमेदेऽथ संकारोऽवकरेऽग्निचटत्कृतौ ॥६१०॥ संकारी भुक्तकन्यायां सामुद्रं लवणान्तरे ।
लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे ॥६११॥ संस्तरे रचयिष्यामि तनुं विभावसौ । मखे यथा-ससंस्तरं विस्तरतश्चकार ॥६०८॥ सङ्गरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः । संगरण संगिरतेऽत्र वा संगरः ॥ सम्यक् गरो वा । अंगीकृतिः प्रतिज्ञा तत्र यथा-सृष्टिदोषविवर्जितात्र न मया कार्येत्ययं संगरः ॥ युद्धे यथा-यस्मिन् संगरभाजि कर्णपदवी कर्णोऽपि नारोहती। क्रियाकारो व्यवस्थास्थापनं तत्र यथा-कृतेऽपि संगरे शत्रोराश्वासो न विधीयते । विषे यथा-असतां कचित्तानां गिरः संगरसोदराः । आपदि यथा-संगरे शरणमीश तवांनीः । संगरं तु फले शम्याः । शमी वृक्षस्तस्य फले । सम्भारः संभृतौ गणे । संभ्रियते सम्भारः ॥ द्वयोर्यथा-प्रभासम्भारसम्भिन्नतमः स्तोमः प्रभापतिः ॥६०९॥ संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि । गुणभेदे । संस्करण संस्कारः । प्रतियत्नः सतो गुणान्तराधानम् । तत्र यथा- दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्त. संस्कार इवाधिकं बभौ । अनुभवे यथा-फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव । मानसकर्मणि यथा - निसर्गसंस्कारविनोत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् । गुणभेदे यथा-पत्संस्कारकलानुवर्तनवशावेलाच्छलेनं भसां यातायातमतन्द्रितं जलनिधे द्यापि विश्राम्यति । अथ संकारोऽवकरेऽग्निचटत्कृतौ । समं ततः कारः संस्कारः। अवकरः सपांसुतृणपुंजः । अग्नेश्चटत्कृतिश्चटत्कारशब्दः ॥६१०॥ संकारी भुक्तकन्यायाम् ॥ संगतः कारोऽस्यां संकारी। गौरादित्वाड्डोः । (२-४-१९) सामुद्रं लवणान्तरे। लक्षणे च शरीरस्य । समुद्रे भवं सामुद्रम् । समुद्रेण प्रोक्तं वा । लवणान्तरे यथा- असमुद्रसामु