________________
तृतीयः काण्डः
(२५३) शिलीन्धं कदलीपुष्पे कवकत्रिपुटारूययोः । शिलीन्ध्री विहगी गण्डूपदीमृदय शीकरः ॥६०६॥ वातास्तजलेऽम्बुकणे शुषिरं वाघगर्तयोः । शुषिरोऽग्नौ सरन्ध्रे च शृङ्गारो गजमण्डने ॥६०७॥ मुरते रसमेदे च शृङ्गारं नागसम्भवे ।
चूर्णे लवङ्गपुष्पे च संस्तरः संस्तरे मखे ॥६०८॥ ऽरुणितांबरैरधिपुरन्ध्रि शिलीन्ध्र सुगन्धिभिः ॥६०५॥ शिलीन्, कदलीपुष्पे कवकत्रिपुटाख्ययोः । कवकं उद्भिद्विशेषः । तत्र यथा- कत्तु यच्च प्रभवति महीमुश्छिलोन्ध्रातपत्रम् । त्रिपुटाख्या ओषधिः। शिलीन्धी विहगी मण्डपदीमृत् । विहगो पक्षिणीमेदः । गण्डूपदी जलौकास्तस्या मृत् मृत्तिका । अथ शोकरः । वाता ( त्या) स्त जलेऽम्बुकणे । सीकते सिंचति शीकरः । अच्छि चटी ( ३९७ उ. ) त्यरः ॥६०६॥ वातास्तजले यथा-पाश्चात्यो वाति वेगात् द्रुत(द्रव)तुहिनशिला शीकरा सारवर्षों । मातङ्गक्षुणसान्द्रश्रुतसरलसरत् शारसारी समीरः ॥ अम्बुकणे यथा-भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः । शुषिरं वाधगयोः । शुषिश्छिद्रमस्यास्ति शुषिरम् । मध्वादित्वात् (१७-१-२६) रः। शुष्यत्यनेन वा शुषोषीति किदिरः । वाचं वाघविशेषः । यदाह-वंशादिकं तु शुषिरमानद्वं मुरजादिकम् । गर्ते यथाशुषिरेषु समीकृतेषु शंकु प्रतिहन्याच्चतुरङ्गुलं तु भूमौ । शुपिरोऽग्नौ सरन्ध्र च । सरन्ध्रे वाच्यलिङ्गः । तत्र यथा-अस्मिन्नंतः शुषिरे निःसारे देहपंजरे कास्था । शृङ्गारो गजमण्डने । सुरते रसभेदे च । शृणाति शङ्गारः । द्वारशङ्गारेति (४११) साधुः । रसभेदे पुंक्लीबः । गजमण्डने यथाशृंगारितायतमहेभकराभमंभः ॥६०७॥ सुरते रसभेदे च यथा-शृङ्गारवल्लभः कामी । शङ्गारं नागसम्भवे । चूर्णे लवङ्गपुष्पे च । नागसम्भवं सिन्दूरम् · त्रिष्वपि यथा-निधत्ते सोमन्ते झगिति नवशृंगारमपरा । संस्तरः संस्तरे (प्रस्तरे) मखे । संस्तीर्यते संस्तरः, संस्तीयन्ते दर्भा अत्र वा। संस्तरे यथा-नवपल्लव